________________ विभाग] 257 अर्हन्नामसहस्रसमुच्चयः प्रातिहार्योज्ज्वलफीतातिशयो विमलाशयः / सिद्धानन्तचतुष्कश्रीर्जीयाच्छ्रीजिनपुङ्गवः // 12 // इति अष्टोत्तरशतनामयुक्तो दशमप्रकाशः॥ (1008) // उपसंहारः एतदष्टोत्तरं नामसहस्रं श्रीमदर्हतः। भव्याः पठन्तु सानन्दं, महानन्दैककारणम् // 111 // इत्येतजिनदेवस्य जिननामसहस्रकम् / सर्वापराधशमनं, परं भक्तिविवर्धनम् // 112 // अक्षयं त्रिषु लोकेषु, सर्वस्वर्गकसाधनम् / स्वर्गलोकैकसोपानं, सर्वदुःखैकनाशनम् // 113 // समस्तदुःखहं सद्यः, परं निर्वाणदायकम् / कामक्रोधादिनिःशेषमनोमलविशोधनम् // 114 // शान्तिदं पावनं नृणां, महापातकनाशनम् / सर्वेषां प्राणिनामाशु, सर्वाभीष्टफलप्रदम् // 115 // जगज्जाड्यप्रशमनं, सर्वविद्याप्रवर्तकम्। राज्यदं राज्यभ्रष्टानां, रोगिणां सर्वरोगहृत् // 116 // वन्ध्यानां सुतदं चाशु, क्षीणानां जीवितप्रदम् / भूत-ग्रह-विषध्वंसि, श्रवणात् पठनाजपात् // 117 // श्रीहेमचन्द्राचार्यविरचितः श्रीअर्हन्नामसहस्रसमुच्चयः समाप्तः / परिचय कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यकृत 'अर्हन्नामसहस्रसमुच्चय' 'श्री जैनधर्म प्रसारक सभा,' भावनगरथी वीर सं. 2465 मा प्रकाशित थयेली पुस्तिका ना आधारे लेवामां आव्युं छे, अने ते अति सरल होवाथी मूल मात्र आप्युं छे। . पाठांतरः-प्रातिहार्योज्ज्वलः कान्त्यतिशयो विमलाशयः / ........... ......