SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 74 नमस्कार स्वाध्याय [संस्कृत नन्तद्रव्यपर्यायगोचरत्वेन च विशिष्टं केवलालोकलक्षणं झानं विज्ञानम् / आनन्दं चात्मनः कदाप्यलब्धपूर्वस्वरूपलाभसमुद्भवमितरकारणकलापनिरपेक्षमनुपाधि मधुरमक्षयमात्यन्तिकं सुखमेव / ब्रह्म च परमं पदम् / यदा च भवोपनाहिकर्मपारवश्यादद्यापि भवस्था केवली भवति तदास्मिन् भगवति केवलिनि विज्ञानमानन्दं च वर्तते / अयं च परमं पदं गमिष्यतीत्यात्मविज्ञानानन्दब्रह्मणां मिथः 5 पृथग्भावः स्यादेव / शैलेश्यनन्तरं च सकलकर्माशप्रक्षयादक्षयं पदमुपेयुष्यस्मिन् विज्ञानमानन्दं ब्रह्म चैकात्मतां याति स एव परमात्मा, स एव विज्ञानं, स एवानन्दः, स एव परमं ब्रह्मेत्यभिन्नभावतां भजते। अतस्तत्र तस्मिन् पूर्वोपवर्णितस्वरूपे परमात्मनि स्तोत्रेण यथार्थवादेनाहं स्वामात्मीयां सरस्वती वाणी पवित्रां पावनी कुर्या-विदध्यामित्यत्तरेण सम्बन्धः। ननु किमस्याः प्रथमं किमप्य पूतत्वमस्तीत्युच्यते / स्वकर्मपरिणामेनाभ्यावृत्त्या भवे बंभ्रम्यमाणानां प्रबलज्ञानावरणोदयाद् विशिष्ट10 चित्तचैतन्यशून्यानामसुमतामसुलभैव कवित्ववक्तृत्वसरसा सरस्वती, यदा च तथाभन्यत्ववैचित्र्यात् संघटितापि भवाभिनन्दिनां सुरनरादीनामसद्भुतगुणोद्भावनेनात्मानं मलिनयति, तदा परमात्मप्रभृतिस्तुत्यवर्गस्तुतिप्रयोगमन्तरेण किमन्यदघमर्षणमस्यास्ततः तत्र स्तोत्रेणेत्युक्तम् / किञ्च अस्मिन् भवकान्तारे संसारारण्ये जन्मिनां सत्क्षेत्राधेकादशाङ्गीसङ्गतस्य जन्मनोऽवतारस्यापीदै सद्भुतं वस्तुतत्त्वोद्भावनमेव फलम्। परिचय कलिकालसर्वज्ञ भगवान् श्रीहेमचन्द्राचार्यना श्री 'वीतरागस्तोत्र' थी कोण विद्वान् अपरिचित हशे? महाराजा कुमारपालनी दैनिक प्रार्थना माटे रचवामां आवेल ए ग्रंथरत्ननं आजे पण अनेक महात्माओ भावपूर्वक प्रतिदिन पारायण करे छे / रोज सवारमा आ ग्रंथ- संपूर्ण पारायण न थाय त्यांसुधी मोढामां कांइ पण न नाखवानो श्रीकुमारपाल महाराजानो दृढ अभिग्रह हतो। आ ग्रंथ साहित्य, भक्ति वगेरे सर्व दृष्टिए 20 परिपूर्ण छ। श्री वीतरागस्तोत्रनी एक प्रत श्रीसोमोदयगणिकृत अवचूर्णि अने श्रीप्रभानन्दसूरिकृत विवरण साथे श्री केसरबाई ज्ञानमंदिर, पाटण, तरफथी वि. सं. 1998 मा प्रकाशित थई छे। तेमांथी प्रस्तुत संदर्भ तारवीने अहीं रजू को छे /
SR No.004318
Book TitleNamaskar Swadhyay Sanskrit Vibhag
Original Sutra AuthorN/A
AuthorDhurandharvijay, Jambuvijay, Tattvanandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1962
Total Pages398
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy