________________ ww, प्रदर्शिततत्तद्विकानदाखफलपटलाः पादपान्दोलनेन (1) चलाचला 15 विभाग] श्रीवीतरागस्तोत्रमङ्गलाचरणम् "चंदाइश्चगहाणं, पहा पयासेइ परिमियं खेत्तं / केवलियनाणलम्भो, लोयालोयं पयासेह" // 1 // इति'। आचार्यः-साधु, भोः सहृदय ? हृदयङ्गममभिदधासि, केवलं सकलेऽपि कलावत्प्रमुखे तेजस्विवर्ग विगणयद्भिरस्माभिर्भानोरेव किमपि तदुपमानलवलाभसम्भावनास्वादत्वमुपलब्धमित्यादित्यवर्णमित्यभिहितं, तत्त्वतस्तु सुमेरुपरमाण्वोरिव महदन्तरं परमात्मद्वादशात्ममहसोरिति / / आदित्योऽपि निरस्ततमस्त्वेन तमसः परस्ताद् भवति / ___. तृतीयान्तं पदमाह / येन च भगवता परमात्मना क्लेशपादपाः सर्वेऽप्युदमूल्यन्त / "अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः।" तत्र "अनित्याशुचिदुःखानात्मसु मिथ्याशानमविद्या, दुर्घराहंकारवशात् सर्वत्राऽस्मीति भावोऽस्मिता, मनोज्ञेषु शब्दादिष्वात्मनो गाढाभिष्वङ्गो रागः, तेष्वेवामनोज्ञेषु भृशमप्रीतिविशेषो द्वेषः, अतत्त्वेऽपीदमित्थमेवेत्येकान्ताग्रहपहिलताऽभिनिवेशः"। 10 उपलक्षणं चैतदन्यासामपि घातिकर्मोत्तरप्रकृतीनाम् / एते च संसृत्यामात्मनोऽनादिसम्बन्धवशाद् बद्धमूलाः, प्रदर्शिततत्तद्विकारप्ररोहसंहृतयः, स्फुरदाध्यात्मिकाधिभौतिकाधिदैविकवेदनोदयप्रसूनसंततयः, प्रकाशितामुष्मिकदुर्गदुर्गतिदुःखफलपटलाः पादपा इव पादपाः। ते च सङ्गत्यागादाकेवलोत्पत्ति त्रिजगदप्रतिमल्लहस्तिमल्लेन येन भगवता दुस्तपतपोऽन्दोलनेन (?) चलाचलतामापाद्य शुक्लध्यानसमुदण्डशुण्डानेडनेन समूलाः सहेलमुन्मूलितास्तेन त्रिजगन्नाथेनाहमपि नाथवान् स्यां 15 भवेयमित्युत्तरेण योगः। येनासौ मामलब्धानां शानादिगुणानां लम्भनेन तेषामेव च लब्धानां परिपालनात्ताननुगृह्णाति। . चतुर्थ्यन्तं पदमाह-मूर्धा यस्मै नमस्यन्ति सुरासुरनरेश्वराः। यस्मै समूलोन्मूलितक्लेश. पादपाय भगवते सुरासुरनरेश्वराः। देवदानवमानवपतयः सकलक्लेशजालोच्छित्तिनिमित्तं मूर्धा उत्तमान सरभसं नमस्यन्ति / तस्मै त्रिभुवनसनातनगुरवे समाहितस्तदेकतानमानसोऽहमपि 20 स्पृहयेयं, प्रणामादिनिमित्तं स्पृहामावहामीत्युत्तरेण सम्बन्धः। इदमुक्तं भवति। किल यद्यपि सुरासुरेश्वरादिवत् प्रत्यक्षार्हत्प्रमाणादिसामग्री दुःषमा-समयसमुद्भूतस्य ममासंभविनी तथापि "मनोरथानामगतिर्न विद्यते" इति न्यायात् स्पृहामात्रमपि तावद् धारयामि येन सदभ्यस्ततया भवान्तरेऽपि संस्कारोऽयमनुवर्तत इति। पञ्चम्यन्तं पदमाह-प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः। यतो यस्मात् सर्वविदः 25 परमपुरुषात् पुरुषार्थानां धर्मार्थ-काम-मोक्षलक्षणानां प्रसाधिकास्तदुपायोपदर्शिन्यो विद्याः शब्दविद्यादिकाः प्रावर्तन्त प्रादुरासन् / यतो द्वादशाङ्गीमूलनीवीमुत्पादादित्रिपदीं तदुचितेषु भगवान् स्वयमुदीरयति / न च द्वादशाङ्गीव्यतिरिक्तमन्यदपि विधाङ्गमस्तीत्यतः समस्तविद्यानां भगवानेव प्रभवः। अतएव ततस्तस्मात् परमपुरुषानुध्यानादहमपि पुमर्थोपलब्ध्या कृतार्थः कृतकृत्यो भूयासमित्युत्तरेण योगः। पुरुषार्थोपायोपलब्ध्या च कृतकृत्यता समीचीनैवेति। 30 षष्ठयन्तं पदमाह-यस्य क्षानं भवद्भाविभूतभावावभासकृत् / यस्य भगवतः परमात्मनो घातिकर्मणामात्यन्तिकक्षयादुत्पन्नं शानं देशकालस्वभावविप्रक(रनन्तरितमत एव भवद्भाविभूतभावावभासकृद् वर्तमानानागतातीतपदार्थसार्थप्रकटनपटिष्ठम् / तस्यैवम्भूतस्याहं किङ्करो भवेयमित्युत्तरेण योगः। अत्रायमाशयः-किलास्मिन् जगति यस्य विसंवादित्वेन नानैकान्तिकोऽष्टाङ्गनिमित्तमात्रावभासनपरो शानांशः स्यात् सोऽपि तदर्थिभिः प्रेष्यैरिव प्रतिक्षणमुपास्यते। यस्य च भगवतः 35 प्रागुपवर्णितस्वरूपं ज्ञानं तस्य किङ्करत्वमनुत्तरसुरा अपि कुर्युः। किमङ्ग ! मादृशोऽङ्गभागिति / सप्तम्यन्तं पदमाह-यस्मिन् विज्ञानमानन्दं ब्रह्म चैकाङ्ग[त्म]तां गतम् / यस्मिंश्च भगवति परमपरमेष्ठिनि विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् / तत्र मत्यादिक्षानेभ्यः क्षायिकत्वेनाप्रतिपातित्वेना