________________ 72 नमस्कार स्वाध्याय [संस्कृत - श्रीप्रभानन्दसूरिकृतविवरणम् . अत्राधसार्द्धश्लोकत्रयस्य पदानां प्रथमादिसप्तम्यन्तविभक्तिप्रथमवचनान्तानामुत्तरश्लोकदयस्य तदन्तैरेव पदैर्यथाक्रमं कर्तृकर्मविवक्षया योजनं कार्यम् / तथाहि-परमात्मेति विशेष्यं पदम् , अतो यः किल परात्मा परंज्योतिः स श्रद्धेयः / यश्च परमेष्ठिनां परमः स ध्येयः, यं चादित्यवर्ण तमसः 5 परस्तादामनन्ति तं शरणं प्रपद्ये / येन च समूलाः सकलक्लेशपादपाः समुदमूल्यन्त तेन नाथवान् स्याम् / यस्मै च सुरासुरनरेश्वराः सरभसं नमस्यन्ति तस्मै समाहितः स्पृहयेयम् / यतश्च पुरुषार्थप्रसाधिका विद्याः प्रावर्त्तन्त ततः कृतार्थो भूयासम् / यस्य च भवद्भाविभूतभावावभासकृद् शानं तस्य. किङ्करो भवेयम् / यस्मिंश्च विज्ञानमानन्दं ब्रह्म चैकात्मतामुपगतं तस्मिन् स्तोत्रेण स्वां सरस्वती पवित्रां कुर्यामिति पदानां परस्परसम्बन्धः। 10 साम्प्रतमेतदेव प्रतिपदं व्याख्यायते / तत्र परश्वासावात्मा च परात्मा परत्वं चास्य देहात्मान्त रात्मापेक्षम् , यतः कैश्चिदुपयोगलक्षणमनादिनिधनं अपौगलिकत्वेन रूपातीतं तथाविधसामग्रीसाकल्यात् शुभाशुभरूपस्य कर्मणः कर्तारमुदयप्राप्तस्य तस्यैव च भोक्तारमत एवैतल्लक्षणविलक्षणाद्देहादर्थान्तरः भूतमविसंवादिप्रमाणप्रतिष्ठितमप्यात्मतत्त्वं महामोहोपहतमतित्वेनामन्यमानैः पिष्टादिद्रव्ययोगान्मदशक्तिमिवाचेतनमहद्भूतसम्पर्काचेतनत्वमुद्भाव्य देहस्यैवात्मत्वमुपकल्प्यतेऽतः स देहात्मा। यथा 15 देहातिरिक्तस्यात्मनः सत्प्रमाणप्रतिष्ठितत्वं तथा पुरस्तादष्टमप्रकाशे प्रकाशयिष्यते। अन्तरात्मा च ज्ञानावरणादिकर्मनिर्मथितमाहात्म्यः शरीरी संसारिजीवः। एतयोश्च वक्ष्यमाणविशेषणगणासहत्वेन प्रकृतानुपयोगित्वमतः परशब्दोपादानम् / परात्मा च विगलितसकलंकनेमलपटलः सम्यसिद्धशानदर्शनाऽऽनन्दवीर्यलक्षणानन्तचतुष्टयः शिवमचलमपुनर्भवं परमपदमध्यासीनो शानदर्शनोपयुक्तः केवलात्मैव साम्प्रतं स एव विशिष्यते। किं विशिष्टः परमात्मत्याह परंज्योतिः, 20 अप्रतिपातित्वेन लोकालोकप्रकाशकत्वेन च परं सर्वोत्कृष्ट चित्स्वरूपं ज्योतिर्यस्येति ज्योतिज्योतिष्मतोरभेदात् स एव परं ज्योतिः। परत्वं चास्य मतिश्रुतावधिमनःपर्यायलक्षणचिदंशचतुष्टयापेक्षं प्रतिपातित्वेनाल्पविषयत्वेन च मत्यादीनामनीदृशत्वात् / यदि वा रवीन्दुविद्युन्मणिप्रमुखे निखिलेऽपि ज्योतिर्वर्गे यः परमुत्कृष्टं ज्योतिरिति स परंज्योतिः। यश्चैवंविधः परात्मा स श्रद्धेयः श्रद्धाविषयमवतारणीय इत्युत्तरपदेन योगः। किमुक्तं भवति ? किल यद्यप्यघातिकर्मणामहदादीनामध्यक्षे तस्मि25 स्तत् प्रत्ययेनैव श्रद्धा विधेयैव / न चानुपकृतपरानुप्रहकृतां क्षीणरागद्वेषमोहानामर्हदादीनां वितथवादित्वमतः किमश्रद्धेयं परमात्मनः ? / पुनः परमरहस्यभूतं परमात्मानमेव विशिनष्टि। परमः परमेष्ठिनाम् / परमे चिदानन्दरूपे ब्रह्मणि तिष्ठन्तीति परमेष्ठिनस्ते चाहंदाचार्योपाध्यायसाधव एव, तेषां मध्ये परमः प्रकृष्टः सिद्धरूपो यः परमेष्ठी, अहंदादिपरमेष्ठिचतुष्टयस्य चामुक्ततावस्थामधिकृत्य सिद्धस्य पञ्चपरमेष्ठिनः परमत्वम् / मुक्तास्तु सर्वेऽप्येकरूपा एव / स चैवंविधः परमात्मा भगवां30 स्तदेकतानमनोभिध्येयस्तत्स्वरूपप्राप्तये सततमनुस्मरणीय इति उत्तरपदेन सम्बन्धः। प्रथमान्तं पदमभिधाय द्वितीयान्तमाह। यं च परमात्मानमणिमाघष्टमहासिद्धिप्रसिद्धिमहसो मुनयोऽप्यामनन्ति-तत्स्वरूपोपलब्धये संततमभ्यस्यन्ति / किम्भूतम् ? तमसः परस्ताद् वर्तमानम्, तमांसि निकाचितानि कर्माणि विमलकेवलाऽऽलोकेन च तेषां पारे प्रतिष्ठितं सत्त्वरजस्तमोगुण प्रयातीतमित्यर्थः। तमहमेवरूपं परमात्मानं दुरान्तरापरित्याजितात्मशक्तिः शरणं प्रपद्ये इत्युत्तरेण 35 योगः। पुनः किं विशिष्टम् ? आदित्यवर्ण, आदित्यस्य प्रभापतेरिव वर्णः शोभा यस्य स तथा तम् / अत्राह परः-'ननु परिमितक्षेत्रमात्रप्रकाशनमहसा मिहिरेण लोकालोकप्रकाशनप्रवरपरमज्योतीरूपस्य परमात्मनः साम्यमनुपपन्नम्। तथा चागमः