________________ विभाग] श्रीवीतरागस्तोत्रमङ्गलाचरणम् श्रीसोमोदयगणिकृतावचूर्णिः यः परात्मेति० परश्वासावात्मा च परात्मा सर्वसंसारिजीवेभ्यः प्रकृष्टस्वरूपः, पुनः किं विशिष्टः ? परंज्योतिः। परं सकलकर्ममलकालुण्यरहितत्वेन केवलं ज्योतिर्ज्ञानमयं यस्य स तथा, परमिति केवलार्थेऽव्ययम् / परमे चिदानन्दरूपे पदे तिष्ठन्तीति परमेष्ठिनोऽहंदादयः पञ्च, तेषां परमः प्रधानभूतः (सिद्धः)। परमत्वं चास्य (सिद्धस्य) मुक्तावस्थामधिकृत्य परमेष्ठिनामिति षष्ठी "सप्तमी चाविभागे निर्धारणे" (2-2-109)5 इति सूत्रेण / तथा यं वीतरागं तमसः परस्तादामनन्ति ध्यायन्ति तत्स्वरूपोपलब्धये मनीषिणः। क ? परस्तात् परस्मिन् पारे, कस्य ! तमसोऽज्ञानरूपस्य, किम्भूतं यम् ? आदित्यवर्णमादित्यस्येव वर्ण उद्योतो यस्य तं तथा, भानोरुपमानमन्यस्य तथाविधस्य वस्तुनोऽत्राभावात् , परस्तादिति पठिततमसोऽज्ञानरूपान्धकारस्याने आदित्यवर्णं सूर्याभं तद्विनाशकमित्यर्थः // 1 // ___ सर्वे० येन सर्वे समस्ताः क्लेशा रागद्वेषादयस्त एव पादपा वृक्षा नरकादिकटुफलदायित्वेन 10 समूला मिथ्यात्वमूलसहिता उदमूल्यन्त उन्मूलिताः, यस्मै मूर्धा सुरासुरनरेश्वरा नमस्यन्ति-नमस्कुर्वन्ति // 2 // प्राव० यतो यत्सकाशाद् विद्याः शब्दविद्यादिकाश्चतुर्दश, धर्मार्थकामादिपुरुषार्थानां च प्रसाधिका विधायिकाः प्रावर्तन्त अभूवन्, यद्वा द्वादशाङ्गीगता विद्याः सुवर्णसिद्धयादिप्ररूपिकाः / यस्य ज्ञानं भवद्भाविभूतभावावभासकृद्–अतीतानागतवर्तमानवस्तुप्रकाशकमस्तीति गम्यम् // 3 // यस्मिन्० यस्मिन् विशिष्टं ज्ञानं विज्ञानं केवलज्ञानमानन्दमकृत्रिमसुखं ब्रह्म च परमपदं 15 त्रीण्यप्येकात्मतामैक्यं गतानि स एव वीतरागजीवः स एव ज्ञानं ज्ञानैकरूपत्वात् तस्य, स एव च सुखं दर्शन-स्पर्शनादिबाह्यस्य कस्यापि तत्राभावात् , स एव परमपदं अमुक्तिरूपस्याभावात् / अथ तच्छब्दं दर्शयन्त आहुः, सः श्रद्धेयः स पूर्वोक्तपरात्मादिविशेषणविशिष्टः श्रद्धेयः, स्वहृदयरुचिविषयः कार्यः, च-पुनः स. ध्येयो रूपातीततया ध्यातव्यस्तं तमसः परस्तादाम्नातं शरणं प्रपद्ये स्त्रीकरोमि // 4 // . तेन० तेनोन्मूलितक्लेशपादपेन नाथवान् सनाथोऽहं स्यां भवामि, तस्मै सुरासुरनमस्कृतायाऽहं 20 समाहितस्तदेकतानमनाः स्पृहयेयं वाञ्छामि, ततः प्रकटितपुरुषार्थसाधकविद्यासमुदायादहं कृतार्थः कृतकृत्यः प्राप्ताभीष्टकार्यो वा भूयासं भवामि भविष्यामि इत्यर्थः / तस्य त्रिकालज्ञानवतः किङ्करो भवेयमस्मि // 5 // तत्र तत्र विज्ञानानन्दब्रह्मरूपे स्वां सरस्वती वाणी, स्तोत्रेण कृत्वा पवित्रां कुर्या—करोमि / को हेतुः ? हि-यस्मात् कारणाद् भवकान्तारे संसारारण्ये जन्मिनां जीवानां, जन्मनः पादपरूपस्य इदमेव वीतरागस्तवनं फलम् , नान्यत् // 6 // ' 25