________________ आचार्यधर्मकीर्तिप्रणीतो न्यायबिन्दुः / प्रथमः प्रत्यक्षपरिच्छेदः। ॐ नमो वीतरागाय। सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पाद्यते // 1 // आचार्यधर्मोत्तरविरचिता न्यायबिन्दुटीका। जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः / रागाधरातेः सुगतस्य वाचो मनस्तमस्तानवमावधानाः॥ आचार्यदुर्वेकमिश्रविरचितो धर्मोत्तरप्रदीपः / b[सूत्राभिधर्मविनयाः सुगतस्य वाचो बाधा विनाद्भुततया सततं जयन्ति / आभान्ति दर्पण इव प्रतिबिम्बितानि तत्त्वानि यत्र सकलस्य पदार्थराशेः // श्रीधर्मकीर्त्यभिमुखानि जगद्धितानि धर्मोत्तरस्य विपुलानि पदान्यमूनि / सम्यक् प्रकाश्य सुकृतं समुपार्जयामि तेनापि दुःखजलधेर्जगदुद्धरामि // मात्सर्यादिमलोपेतैः [शक्यं न गुणदर्शनम् / यतो हेमपरीक्षायाः सन्तो हि निकषोपलाः / / न्यायबिन्दुटीका चिकीर्षुरेष धर्मोत्तरो भगवत्पूजापुण्ययोः साध्यसाधनभावमतीन्द्रियमीदशि विषये गत्यन्तरविरहादभ्युपेयप्रामाण्यादागमादवगम्य, पुण्यस्य चापुण्यविरोधित्वादपुण्यफलविघ्नाद्यभावो व्यापकविरुद्धविधिना सम्भवी, तेनाविघ्नेन ग्रन्थकरण तत्समाप्ती . ॐ नमः सर्वज्ञाय-B.E.H.N. नास्ति A.P. 2 पत्रमत्र त्रुटितम्-सं० 3 पत्रमत्र त्रुटितम्-सं० 1 पत्रमत्र त्रुटितम्-सं०