________________ 264 टिप्पणानि / सत्यमेतत् / परमेतस्मिन्नभ्रान्तग्रहणे सति विशिष्टसंवादज्ञानं प्रत्यक्षमिति गम्यते अन्यथा यथानुमानं संवादमात्रेणैव प्रमाणम्, एवं प्रत्यक्षमपि। अतएव वृत्तिकारेणोक्तं ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानं स्यादिति / इह वा सार्थकमभ्रान्तग्रहणम् / केचिदाचार्यैकदेशीया:--'द्विचन्द्रादिविज्ञानानां मानसी भ्रान्तिः नेन्द्रियजेति / तस्याश्च कल्पनापोढग्रहणेनैव निरासः / तथा च दिग्नागनाम्नाचार्येण 'कल्पनापोढं प्रत्यक्षम्' इति लक्षणेऽभ्रान्तग्रहणं न कृतमिति'-प्रतिपन्नाः / तेषां विप्रतिपत्तिनिराकरणाय इन्द्रियजां भ्रान्ति लक्षयन्. अभ्रान्तविशेषणमाह धर्मकीर्तिरित्यनवद्यम् अभ्रान्तग्रहणम् / " न्याय० म० टि० 10 15; "केशोण्डुकादिविज्ञाननिवृत्त्यर्थमिदं कृतम् / अभ्रान्तग्रहणं तद्धि भ्रान्तत्वान्नेष्यते प्रमा / / मानसं तदपीत्येके नैतदिन्द्रियभावतः / भावात्तद्विकृतावस्य विकृतेश्चोपलम्भतः // सर्पादिभ्रान्तिवच्चेदमनष्टेप्यक्षविप्लवे। निवर्तेत मनोभ्रान्तेः स्पष्टं च प्रतिभासनम् // " तत्त्वसं० का० 1312-1314 // "अभ्रान्तमत्राविसंवादित्वेन द्रष्टव्यम् / न तु यथावस्थितालम्बनाकारतया / अन्यथा हि योगाचारमतेनालम्बनासिद्धरुभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलक्षणस्याव्यापिता स्यात् ॥"-तत्त्वसं० पं० का० 1312. 43. 8. 'बहवः'--"को वा विरोधो बहवः संजातातिशयाः पृथक् / भवेयुः कारणं बद्धेर्यदि नामेन्द्रियादिवत् // " प्रमाणवा० 2.223 44. 17. 'नन्वेवम्'-"यद्येवमभ्रान्तत्वं तदा योगाचारमताभावः / न। बस्तुत्वेनाभ्रान्तत्वं लक्षणं नास्त्येव / कथं तहि द्विचन्द्रादीनां प्रत्यक्षताऽपाक्रियतेऽनेन ? उच्यते / सम्यग्ज्ञानविशेषणविशिष्टं प्रत्यक्षशब्दवाच्यमर्थमनूद्य कल्पनापोढत्वं विधीयते / न च द्विचन्द्रादिज्ञानानामविसंवादकत्वमस्तीति निरासस्तेषाम् / सौत्रान्तिकपक्षे तु अभ्रान्तपदस्य कि फलम् ? उच्यते। आचार्यदेशीया हि-द्विचन्द्रादेर्धान्तिर्मानसी। तस्याश्च कल्पनापोढपदेनैव निरासः / अत एवाचार्येण 'कल्पनापोढं प्रत्यक्ष प्रत्यक्षेणैव सिध्यति [प्र. वा० 2.123]' इति लक्षणेऽभ्रान्तपदं नोपात्तिमिति-प्रतिपन्नाः / तान् प्रति इमां विप्रतिपत्ति निराकर्तमभ्रान्तग्रहणं लक्षणशेषमाह कीर्तिः / अत एव टीकाकारोपि कीर्त्यभिप्रायं परिपालयन् विप्रतिपत्तिनिरासार्थमेवाभ्रान्तपदमाह। कथमभिप्रायं पालयन् / उच्यते / एवं हिं द्विचन्द्रादिभ्रान्तिनिरासार्थं भवेदभ्रान्तपदं यदि द्विचन्द्रादिभ्रान्तिरिन्द्रियजा भवंति नान्यथा।" तात्पर्य० प० 20; "एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेवव्याख्या पदद्वयकथनरूपा दूषिता।" न्याय० टि० पृ० 18; ननूक्तं योगाचारमतमसंगृहीतं स्यादिति / उच्यते / बाह्यनयेन सौत्रान्तिकानुसारेण लक्षणं कृतमिति अदोषः / योगाचारमतेन त्वभ्रान्तग्रहणं न कर्तव्यं संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् // " न्याय० टि० पृ 19 47. 9. सू० 5. "जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः / तेनेच्छांतः प्रवर्तेरन नेक्षेरन् बाह्यमक्षजाः // " प्रमाणवा० 2. 176. 47. 10. 'अनेन' "तेन यद्विनीतदेवव्याख्या दूषिता / " न्याय० टि० पृ० 21 47. 18. "विवेचयिष्यामः'-द्रष्टव्यं--पृ० 71. पं० 5. 47. 24. 'कीदृशीति'-"कीदृशीति स्वरूपपरिज्ञानशून्यस्येदं भाषितम् / यद्वा सम्भावयन पृच्छति कल्पनां यतो बढ्यः कल्पनाः सन्ति / तथाहि-इन्द्रियविज्ञानानां वितर्क