________________ - टिप्पणानि / - 263 38. 26. 'अक्षमक्षम्'-"तत्रायं न्यायमुखग्रन्थ:-यत् ज्ञानमर्थरूपादौ विशेषणाभिधायकाभेदोपचारेणाविकल्पकं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्"-तत्त्वसं० पं०का०१२३७. 40. 3. 'यथार्थ०' “अनेन विनीतदेवशान्तभद्रयोाख्या दूषिता।" न्याय० टि० पृ० 16 40. 4. सू० 4. "प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।"-प्रमाणवा०२. 123; 2. 174; "वस्तुशक्त्यैव नेत्रधीः / " प्रमाणवा० 2. 185; तत्त्वसं० का० 1214 तः / "सूत्रे अनुपात्तं ज्ञानं लभ्यते कुत इति चेदुच्यते। कल्पनया ज्ञानस्यैव संबन्धो दृष्टः, भ्रान्तिश्च ज्ञानधर्मः / तस्मात् कल्पनारहितमभ्रान्तं च ज्ञानमेवोच्यते / तद्यथा सवत्सा धेनुरानीयतामित्युक्ते न वडवाऽनीयते किन्तु गोधेनुः / एवमिहापि कल्पनया भ्रान्त्या च ज्ञानस्यैव संबन्धो दृष्ट इति ज्ञानमेव प्रत्यक्षमिष्यते इति विनीतदेवव्याख्यानं सचोपरिहारमसंगतम्”–तात्पर्यपृ० 25; अस्य लक्षणस्य निरासः जयन्तेन न्यायमञ्जर्यां कृतः / न्याममं० पृ० 92 / न्याय० ता० पृ० 88, 102, . 41. 11. 'अन्येन' "प्रत्यक्षत्वमनूयेत्यादि विधीयते इत्यादि वाक्यं ब्रुवता 'प्रत्यक्षं संज्ञा, कल्पनापोढेत्यादि संज्ञीति'–अप्रस्तुताभिधानं विप्रतिपत्तिनिराकरणे प्रकृते स्वेच्छया संज्ञाकरणे सति प्रत्यक्षशब्दवाच्ये वस्तुनि परस्याभिमते विप्रतिपत्तिर्न निराकृता स्यात् / " तात्पर्य पृ० 19; "अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं संज्ञासंज्ञिसंबंधरूपं प्रत्युक्तम् / " न्याय० टि० पृ० 17. 41. 13 'अपरेण'-"यस्त्वनयोः प्रदेशान्तरसिद्धयोरनुवादं कृत्वा प्रत्यक्षत्वं विधत्ते तेनापि विपरीतं लक्ष्यलक्षणविधानवाक्यमाश्रितं स्यात् / प्रसिद्धं हि लक्ष्यलक्षणमनूद्य लक्ष्यमभिधीयते। यथा शिखया परिव्राजकतेति / इह तु लक्ष्यस्यार्थसाक्षात्कारित्वस्याप्रसिद्धत्वात् तदनुवादेनाप्रसिद्धं लक्षणमेव विधीयते / यथा परिव्राजकशिखालिङ्गमिति / किं च प्रदेशान्तरा'सिद्धेऽप्रत्यक्षाधारे कथमनुद्येयाताम् ? प्रत्यक्षाधारत्वे च सिद्धे किं पुनरिहापूर्व विधेयमिति अवधीरितम् / " तात्पर्य० पृ० 19. 42. 1. 'सन्निवेशोपाधि'-"सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः / सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते" इत्यादि प्रमाणवा० 2. 194 तः। 42. 19. 'पूर्वव्याख्या'-"किमर्थं विशेषणद्वयोपादानम् ? उच्यते / तैमिरिकज्ञानव्यवच्छेदार्थमभ्रान्तपदम् , अनुमाननिरासार्थमितरत् / न त्वालम्बनविषयेऽन्यथा योगाचारमतममतं स्यात् / तन्मतेन सर्वेषां स्वालम्बने भ्रान्तत्वात् / इष्यते च सौत्रान्तिकयोगाचारमतानुसारेण प्रकरणारम्भो यतः प्रामाण्यविषयेऽविसंवादकत्वलक्षणमभ्रान्तत्वं द्वाभ्यामभ्युपगम्यते / सत्येवमनुमानस्यापि प्रत्यक्षत्वप्रसंगः / तदपि हि अविसंवादकत्वादभ्रान्तमिष्यते। अतः तन्निराकरणार्थं कल्पनापोढग्रहणमिति अन्यव्याख्यां निराचिकीर्षुराह-अभ्रान्तमित्यादि ।"-तात्पर्य० पृ० 19; "ननु यदेतत् भ्रान्तग्रहणं विप्रतिपत्तिनिराकरणार्थमुक्तं तदयुक्तम् / असम्यग्ज्ञानत्वादेव गच्छवृक्षदर्शनादि प्रमाणं न भविष्यति। न हि य एव वृक्षादिर्दश्यते स एव प्राप्यते इति विसंवाद एव / अतः किमभ्रान्तग्रहणेन एतन्निवत्त्यर्थेन ?