________________ हेत्वाभासप्रकरणे सव्यभिचारः . 491 मूलम् / यदुक्तं मिश्रेण सपक्षविपक्षव्यावृत्तत्वज्ञानमुभयविरुद्धव्याप्तिग्रहसामग्रीति कृत्वा तयोः परस्परव्याप्तिग्रहप्रतिबन्धकत्वेनैव दूषकत्वं तद् दूषयति - तदपीति / सपक्षविपक्षव्यावृत्तत्वज्ञाने जातेऽपि आप्तवाक्यादिरूपशब्दात् व्याप्तिग्रहादनुमित्युत्पत्तेरनुभवसिद्धत्वात्, व्याप्तिग्रहप्रतिबन्धाभावादनुमित्युत्पत्तेरावश्यकत्वात् / तथा च परस्परविरुद्धव्याप्तिग्रहप्रतिबन्धकत्वेन नासाधारणस्य दूषकत्वम् / ननु यदि असाधारणस्थले आप्तवाक्यात् व्याप्तिग्रहे सति अनुमितिर्जायते तदा सत्प्रतिपक्षोत्थापकत्वेनापि असाधारणस्य दूषकत्वं न स्यात् / यतस्तव मतेऽपि सत्प्रतिपक्षोत्थापकत्वेन दूषकत्वं तदपि न सम्भवति इत्यत आह - किञ्चेति टीका / तथा च सपक्षविपक्षव्यावृत्तत्वज्ञानं यत् वर्तते तत् उभयसहचारव्यतिरेकसहचारग्रहरूपं शब्दत्वाभावस्य नित्यत्वनित्यत्वाभावरूपसाध्यसाध्याभावसहचारग्रहरूपम्, न चैतावन्मात्रं व्यतिरेकव्याप्तिग्रहसामग्री किन्तु अनुकूलतर्कसहकृता सा / उभयव्यावृत्तत्वज्ञानं व्यतिरेकव्याप्तिग्रहसामग्री / यदि तत्रानुकूलतर्कोऽवतीर्णस्तदाऽसाधारण्यमेव न भवति। ततोऽनुकूलतर्कसहकृतस्य तस्य सपक्षविपक्षव्यावृत्तत्वज्ञानस्य व्याप्तिग्रहप्रतिबन्धकत्वं वक्तव्यम् / तथा च परमुखनिरीक्षकत्वात् स्वतन्त्रहेत्वाभासत्वं न स्यादेव / दृष्टान्तेन विवृणोति - न हीति / इतरसामग्री व्यभिचारज्ञानसामग्री, [252 B] तत्समवहितस्योपाधिज्ञानस्य व्यभिचारानुमापकलिङ्गसमवहित(तं) यत् उपाधिज्ञानं तस्य व्यभिचारज्ञानसामग्रीत्वेन व्याप्तिज्ञानप्रतिबन्धकतया उपाधेरपि हेत्वाभासत्वापत्तिः, तथा च परस्परविरोधिव्याप्तिग्रहसामग्रीत्वेनासाधारणस्य प्रतिबन्धकत्वं नास्ति। न हीत्यारभ्य ध्येयमितिपर्यन्तो ग्रन्थः पुस्तकान्तरात् शोध्यः / ननु साध्यतदभावोत्थापकतया सपक्षव्यावृत्तत्ववत् विपक्षव्यावृत्तत्वमप्युपयुज्यते एव इत्यत आह - असाधकतानुमाने इति शेषः / तथा च इदमसाधकं सपक्षविपक्षाभ्यां व्यावृत्तत्वात् अत्र इदमसाधकं सपक्षव्यावृत्तत्वात् इत्येवास्तु, विपक्षव्यावृत्तत्वं व्यर्थम् / तथा च परार्थानुमाने सपक्षव्यावृत्तत्वेनैव हेतुनाऽसाधकतानुमितौ संभवत्यां विपक्षव्यावृत्तत्वं नोद्भावनीयम् / तथा च न तल्लिङ्गविशेषणं विरुद्धमिति / ननु विरुद्धमनेनोपाधिना चेत् साधारणं तदा तत्रानैकान्तिकसामान्यलक्षणं साध्यतदभावोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं विरुद्ध नास्ति कथमनेनोपाधिना संग्राह्यमित्यत आह - अत्रेति टीका / विरुद्धश्चेत् अनेनोपाधिनाऽसाधारणत्वेन यदि सङ्गृहीतः सामान्यलक्षणयोग्यः पूर्ववत् योज्य इत्यर्थः।। * अनुपसंहार्यो नासत्सपक्षविपक्षः सिद्ध्यसिद्धिविरोधात् / नापि केवलान्वयिधर्मावच्छिन्नपक्षकः, केवलान्वयिसाध्यकस्य सद्धेतुत्वात् व्यतिरेकिसाध्यकस्य तु साध्यतदभाववद्गामित्वेन साधारणत्वात् अन्यथा संशयाहेतुत्वेनानैकान्तिकता न स्यात्, सर्वं क्षणिकं सत्त्वात् इति साध्याप्रसिद्धया व्याप्यत्वासिद्धमपार्थकं वा,