________________ 490 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावज्ञाने धूमज्ञानं प्रतिबन्धकं तदैव भवति यदा वह्निव्याप्यत्वेन धूमस्य ग्रहः नान्यदा / तद्वत् प्रकृते यत्र नित्यत्वानित्यत्वोभयव्यापकत्वं तदा वृत्तिमत्त्वाभाव इति नित्यत्वानित्यत्वोभयव्यापकत्वस्य वृत्तिमत्त्वाभावस्य च व्याप्त्यग्रहदशायां वृत्तिमत्त्वग्रहप्रतिबन्धकत्वाभावात् ग्राह्याभावावगाहितया प्रतिबन्धकत्वं वाच्यम् / ग्राह्यं वृत्तिमत्त्वम्, तदभावावगाहितया प्रतिबन्धकत्वं नित्यत्वानित्यत्वोभयव्यापकत्वग्रहस्य वाच्यम् / तच्च न सम्भवतीत्यर्थः ग्राह्याभावस्य वृत्तिमत्त्वाभावस्य व्यापकताग्रहेऽविषयत्वात् / अत एवेति टीका / यतो ग्राह्याभावानवगाहितयोभयव्यापकत्वग्रहो वृत्तिमत्त्वग्रहे प्रतिबन्धको न भवति एवं वृत्तिमत्त्वग्रहे(हो)ऽपि ग्राह्याभावानवगाहितया उभयव्यापकत्वग्रहे न प्रतिबन्धकः ग्राह्याभावानवगाहित्वात् / यदि च ग्राह्याभावानवगाहित्वेऽपि वृत्तिमत्त्वग्रहस्तदुभयव्यापकत्वग्रहे प्रतिबन्धकस्तदुभयव्यापकत्वग्रहो वा वृत्तिमत्त्वग्रहे प्रतिबन्धकः] इत्येकग्रहोऽपरग्रहे प्रतिबन्धकश्चेत् स्यात् तदा बाधस्यापि प्रतिबन्धकत्वं न स्यात् इत्याह - अन्यत्रेति टीका। बाधस्यापि प्रतिबन्धकत्वं न स्यात्, कुतः ? यदि पक्षस्य साध्यव्याप्यवत्तया ग्रहस्तदा साध्याभावरूपबाधग्रह एव न सम्भवति यदि च साध्याभावग्रहस्तदा साध्यवत्त्वग्रह एव न सम्भवतीति बाधस्य प्रतिबन्धकत्वं न स्यात्, उभयग्रहस्योभयत्र प्रतिबन्धकत्वात् / एतदेवाह - साध्यव्याप्यवत्तयेति टीका / यदि साध्यव्याप्यवत्तया पक्षश्चेत् ज्ञातस्तदा व्यापकसम्बन्धः पक्षस्यावश्यं वर्तते इति कृत्वा साध्याभावज्ञानरूपो बाध एव नोदेति / उपसंहरति - तस्मादिति टीका / यथा व्याप्यवत्तया निश्चिते पक्षे बो(बा)धरूपो यो व्यापकाभावः साध्याभावस्तस्य निश्चयो भवत्येव यथा [252 A] गन्धप्रा० (गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वात्) इत्यत्र व्याप्यवत्त्वनिश्चये विद्यमानेऽपि बाधरूपो निश्चयो जायते / तथा नित्यत्वानित्यत्वयोर्हेत्वा(त्व)भावस्य व्यापकतानिश्चये विद्यमानेऽपि वृत्तिमत्त्वग्रहः शब्दत्वस्य पक्षे भविष्यत्येवेत्यर्थः / ननु व्याप्यवत्ताज्ञानस्य बाधग्रहे प्रतिबन्धकत्वं मास्तु भिन्नप्रकारकत्वात् / यतो व्याप्यवत्ताज्ञाचे व्याप्तिः प्रकारो बाधे तु साध्याभावः प्रकारो न तु व्याप्त्यभावः प्रकारः इति भिन्नप्रकारकत्वात् न प्रतिबन्धकत्वं तदा भिन्नप्रकारकत्वात् अत्रापि वृत्तिमत्त्वग्रहनित्यत्वानित्यत्वग्रहयोः प्रतिबध्यप्रतिबन्धका(क)भाव एव न स्यात् इत्याह-तदा प्रकृतेऽपीति / दूषणान्तरं निराकरोति - सत्प्रतिपक्षे चेति टीका। सत्प्रतिपक्षेऽसाधारण्योद्भावनं नास्त्येव, पूर्वोक्तरीत्या प्रयोजनाभावात् / यतोऽसाधारणेनापि सत्प्रतिपक्ष एव कर्तव्यस्तस्य च पूर्वं सिद्धत्वात् / अत्राशङ्कते - न चैवमिति / यदि सत्प्रतिपक्षेऽसाधारण्योद्भावनं नास्ति तथा(दा) कथकसम्प्रदायविरोधः इति न च वाच्यम् / समाधत्ते - तस्य चेति टीका / तस्य कथकसम्प्रदायस्य सन्दिग्धत्वात् / सत्प्रतिपक्षेऽसाधारण्योद्भावनं वर्ततेऽयमर्थः सन्दिग्धः / एतावता प्रबन्धेन सत्प्रतिपक्षोत्थापकतयाऽसाधारणस्य दूषकतां समर्थयित्वा उभयव्याप्तिग्रहप्रतिबन्धकतयाऽसाधारणस्य दूषकत्वमिति मिश्रमतं दूषयति - तस्मादिति