________________ 27 परस्मैधातवः 174-189] स्वोपझं धातुपारायणम् / स्यतेऽनेनेति “व्यञ्जनाद्-" 5 / 3 / 132 / घनि यावादित्वात् के खेटकः, आखेटकः / काभावे खेटो ग्रामोऽधमश्च // 179 शिट 180 पिट अनादरे / एतौ तालव्य-मूर्धन्यादी। शेटति / शिशेट // पिट / "षः सो-' 2 / 3 / 98 // इति सत्वे सेटति / षोपदेशत्वाद् षत्वे सिपेट // 181 जट 182 झट सङ्घाते / जटति। जजाट / जट्यते-संहन्यते "स्थादिभ्यः-" 5 5 / 3 / 82 / इति के जटा / जटा अस्य सन्तीति “काला-जटा-" 7 / 2 / 23 / इति लेलौ, जटालः जटिलो जटावान् / अभ्रादित्वादः जटः / स्थादित्वात् के जटः // झट / झटति / उज्झटति / अचि झटः, झटा / घनि झाटः // 183 पिट शब्दे च / चकारात् सङ्घाते / पेटति / “तिक्कृतौ-" 5 / 1 / 71 / इति के स्वार्थे के च पिटकः / “घञ्युपसर्गस्य-" 3 / 2 / 86 / इति बाहुलकाद् दीपे पिटाकः / लिहादित्वादचि पेटा। 10 उणादौ “छिदि-भिदि-" (उ० 30) इति वा कित्यके पिटकः क्षुद्रस्फोटः, पेटकं चक्रम् / केचित 'पेडा' इति सिद्ध्यर्थ डान्तमेनं पठन्ति / 184 भट भृतौ / भृतिवेतनं भरणं च / भटति / बभाट / परिभाषणे घटादित्वात् णौ भटयति / अचि भटः / णके भाटकम् / उणादौ "बन्धि-वहि-" (उ० 459) इति इत्रे भटित्रम् / “कल्यनि-" (उ० 481) इति इले भटिलः / “कमि-वमि--" (उ० 618) इति णिदिः, भाटिः सुरतमूल्यम् // 15 - 185 तट उच्छ्राये / तटति / तताट / अचि तटः / णके ताटकः / उणादौ "शलि-बलि-"(उ० 34) इत्याके तटाकम् // 186 खट काझे / काङ्गाऽस्यास्तीत्यभ्रादित्वादः काङ्गः, काङ्क्षाविशिष्टो धात्वर्थः। खटति / चखाट / अचि खटस्तृणम् / गौरादित्वात् ड्याम् खटी। लध्वी खेटी खटिका। उणादौ “लटिखटि-" (उ० 505) इति वे खट्वा // 20 187 णट नृतौ। नतावित्यन्ये / हिंसायामप्येके / नटति। प्रणटति, णोपदेशत्वाद् “अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वम् / नायं णोपदेश इत्येके, प्रनटयति प्रनाटयति। नेटतुः नेटुः / अचि नटः / णौ नतौ घटादित्वाद् ह्रस्वे नटयति शाखाम् ; नृतौ हिंसायां च घटादित्वाभावे न हूखः, नटं नाटयति, प्रणाटयति, चोरस्योन्नाटयति, “जास-नाट-" / 2 / 2 / 14 / इति कर्मणो वा व्याप्यत्वम् / नटण अवस्यन्दने नाटयति नाटकम् // 188 हट दीप्तौ / हटति / जहाट / णके हाटकम् // 189 पट अवयवे / “षः सो-" / 2 / 3 / 98 / इति सत्वे सटति / ससाट / अचि सटा / पोपदे 1 "अभ्रादिभ्यः" // 2 // 46 // 2 "स्थादिभ्यः कः" 5 / 3 / 82 // 3 "लिहादिभ्यः" 5 / 1150 // 4 "त्वाद् डी, ख प्र० मु० // 5 + + एतन्मध्यगतः पाठः सं१ सं२ संपा१ वा० तपा० नास्ति / / 6 नर्तयतीत्यर्थः // 7 चौरस्यो प्र. मु० // 25