________________ प्रथमं परिशिष्टम् कण्ड्वादिधातवः // / 1 कन्डूग गात्रविनामे कण्डूयति / 2 महीङ् वृद्धयर्चयोः महीयते / 3 हृणीङ् रोषे हणीयते / 4 मन्तु रोषे वैमनस्य च मन्तूयति / 5 असु मानसोपतापे असूयति / वल्गु माधुर्यपूजयोः वल्गूयति / 7-8-9-10 वेङ् लाडू वेट लाट धौत्ये अस्वप्ने पूर्वभावे च वेयते, लायते, वेट्यति, लाट्यति / 11 लिटू अल्पार्थकुत्सयोः लिट्यति / 12 लोट् दीप्तौ लोव्यति / 13-14 इरज इरस इायाम् इरज्यति इरस्यति / 15 भिष्णज् उपसेवायाम् भिष्णज्यति / 16 भिषज् चिकित्सायाम भिषज्यति / 17 उरस ऐश्वर्ये उरस्यति / 18 नन्द समृद्धौ नन्धति / 19 कुषुम क्षेपे कुषुभ्यति / 20 संभूयस प्रभूतार्थे संभूयस्यति / 21-22 इयस इसस ईर्ष्यायाम् इयस्यति, इसस्यति / 23 पुष्प सन्तोषे पुष्पति / 24 उषप्त प्रभातार्थे उपस्यति / 25 रेपा चित्रे रेषायति / 26 पयस् प्रसवे पयस्यति / 27 वेला समयार्थे वेलायति / 28 चरण गतौ चरण्यति / 29 अगद औषधे अगवति / 30-31 तिरस तरण प्रसिद्धौ तिरस्यति, तरण्यति / 32 टुवस परितापपरिचरणयोः टुवस्यति / 33 कुसुम क्षेपे कुसुभ्यति / 34-35-36 एला केला खेला विलासार्थे एलायति केलायति खेलायति / 37 मेधा आशुग्रहणे मेधायति / 38 मगध परिवेष्टने मगध्यति / 39 समर युद्धे समयति / 40 सुख सुखीभवने सुख्यति / 41 दुःख दुखीभवने दुःख्यति / 42-43 भुरण पुरण गतौ भुरण्यति पुरण्यति / 44 भरण धारण-पोषण-युद्धेषु भरण्यति / 45 चुरण चौर्यचेतनयोः चुरण्यति / 46 इषध शरधारणे इषध्यति / 47-48 तन्तस पम्पस दुःखार्थी तन्तस्यति, पम्पस्यति / 49 गद्गद वाक्यस्खलने गद्गद्यते / 50 तुरण त्वरायाम् तुरण्यति / 51 सपर पूजायाम् सपर्यति // 1. इह धातुपारायणे ये कण्ड्वादिधातवः न संगृहिताः ते ग्रन्थातरेभ्य उदृत्य अत्र प्रदर्श्यन्ते //