________________ 242] धातुपारायणे चुरादयः (9)-." ... '236 महुण' / मंहयति / अन्यत्र बहुङ महुङ् वृद्धौ [ 1873-874 ], बहते मंहते / लोकृतर्कादयः स्वार्थे णिचमुत्पादयन्ति भासार्थाश्चेति पारायणम् / भासयति दिशः, दीपयति, इन्धयति, प्रकाशयति / गणान्तरपाठस्तु एषामात्मने पदादिकार्थः // . अथात्मनेपदिनः तत्रोदन्तः // . ' 237 युणि जुगुप्सायाम् ' / इदिचाद् " इङित:०" 3 / 3 / 22 इति आत्मनेपदे यावयते धर्म जाल्मः / “य एच्चा० " 5 / 1 / 28 इति ये याव्यम् / अन्यत्र युक् मिश्रणे [2 / 22], यौति / युंगरू बन्धने [816], युनीते, युनाति / युजिरयमित्येके, योजयति // .. अथ ऋदन्तः // ___'238 गणि विज्ञाने ' / विज्ञापने इत्येके / गारयते / अन्यत्र गत् निगरणे [5 / 21], गिरति / गृश् शब्दे [ 8 / 31 ] गृणाति / कृणीति चन्द्रः, कारयते / अन्यत्र कृत् विक्षेपे [ 5 / 20 ], किरति // अथ चान्तः // 239 वश्चिण प्रलम्भने / प्रलम्भनं मिथ्याफलाख्यानम् / बञ्चयते / " शिवेत्ति० " 5 / 3 / 111 इत्यने वञ्चना / अन्यत्र वञ्चू गतौ [1 / 106 ], वञ्चति / इदिचादेव णिजन्ताद् आत्मनेपदे सिद्ध " प्रलम्भे गृधिवञ्चेः" 3389 इति तद्विधानं णिगन्तादफलवकर्थमित्येके / अथ टान्तः // . - '240 कुटिण प्रतापने ' / कोटयते, उत्कोटयते / अन्यत्र कुटत् कौटिल्ये [5 / 112 ], कुटति // अथ दान्तौ // ' 241 मदिण् वृप्तियोगे'। तृप्तिशोधने इत्यन्ये / तृप्तेः शोधनं संपत्तिः / मादयते / अन्यत्र मदैच हर्षे [393 ], मायति / हर्षग्लपनयोः घटादित्वाद् णिगि ह्रस्वे, मदयति // 242 विदिण चेतनाख्याननिवासेषु' / वेदयते सुखम् , चेतयते इत्यर्थः / आवेदयते धर्मम् , आख्यातीत्यर्थः / वेदयते गृहम् , निवासं करोतीत्यर्थः / . 1. क्षीरस्थाभी (क्षी. त. पृ. 297) / ५.कयामत्यक //