________________ 128 आचार्यश्रीहेमचन्द्रविरचिते [धा० 931 - "931 अपी 932 असी गत्यादानयोश्च' / चकारादीप्तौ / अषते, अपति, आले, आष, अपिता, अपित्वा // ___ अथ सान्तौ सेटौ च // '932 असी' / असते, असति, आसे, आस / आस इत्यसतेः इति वामनः [ वामन काव्यालङ्कार, 5 / 2 / 29] / असिता / असक् भुवि [ 2 / 44 ] अस्ति / असूच क्षेपणे [ 378 ] अस्यति // ___ 933 दासृग् दाने' / दासते, दासति, ददासे, ददास, दासिता। क्ते दासितम् / अचि दासः। गौरादित्वाद् ड्याम् दासी। ग्रहादित्वाणिनि उदासी / घनि उद्दासः / " णौ दान्त०" 4 / 4 / 74 इति क्ते वा निपातनाद् दस्तः, दासितः // अथ हान्तौ सेटौ च // '934 माग माने' / मानं वर्तनम / माहते. माहति, ममाहे. ममाह, माहिता / ऋदिचाद् न हूस्वः, अममाहत् / अचि माहः / स्त्रियाम् माहा गौः // * 935 गुहौग संवरणे'। “गोहः स्वरे" 4 / 2 / 42 इत्यत्वे गृहते, गृहति, जुगृहे, जुगृह / औदित्वाद् वेट्, गोढा, गृहिता / इडभावपक्षे " हशिटो." 3 / 4 / 55 इति सकि " दुहदिह० " 4 / 3 / 74 इति वा तल्लुकि च अघुक्षत, अगूढ, अगूहिष्ट / परस्मैपदे तु सको लुगभावे अघुक्षत् , अगृहीत् / " स्वरेऽतः " 4 / 3 / 75 इति सकः अल्लुकि अघुक्षाताम् , अघुक्षन्त / " स्वरस्य परे०" 7 / 4 / 110 इति प्राचः परस्मिन्नपि विधौ कर्तव्ये स्वरादेशस्य स्थानिवचम् इष्यते, तेनात्र अल्लुकः परस्मिन् अन्तः अदादेशे स्थानित्वाद् " अनतोऽन्तो०" 4 / 2 / 114 इत्यन्न भवति / वेट्त्वात् क्तयोर्नेट , गूढः गूढवान् / " ग्रहगुहश्च० " 4 / 4 / 59 इति सनीप्रतिषेधात् जुघुक्षति / णो डे अजूगुहत् / ये तु हस्वं नेच्छन्ति तन्मते अजुगृहत् / “कृवृषि०" 5 / 1142 इति वा क्यपि गृह्यम् ; पक्षे ध्यणि गोह्यम् / " नाम्युपान्त्य" 5 / 1 / 54 इति के गुहः / गिर्योषध्योः मिदादित्वाद् अडि गुहा; अन्यत्र क्तौ गूढिः / उणादौ "विदनगगन" (उ० 275) इत्यने निपातनाद् गहनम् / “तीवरधीवर०" ( उ० 444 ) इति वरटि निपातनाद् गह्वरम् // 1. सते असक् इति मु० //