________________ आत्मनेधातवः 634-653] स्वोपझं धातुपारायणम्। 644 द्राघृङ् आयासे च। चकारात् सामर्थ्ये / आयासः कदर्थनम् / कौशिकस्त्वायामे इत्याह, दैर्घ्य विशिष्टायां क्रियायामिति च व्याख्यत् / काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राधिमादयः कस्मिंश्चिद् व्याकरणे धातोरेव साधिताः / एवं नेदत्यादेनेदिष्ठादयोऽपि / द्राघते / द्राषिता / ऋदित्त्वाद् हे न ह्रस्वः, अदद्रावत् / किपि “ग-ड-द-बादे:-" 2 / 1 / 77 / इति आदिचतुर्थत्वे प्रधाक् // 645 श्लाघृङ् कत्थने / कत्थनमुत्कर्षाख्यानम् / “श्लाघ-हनु-स्था-" 2 / 2 / 60 / इति चतु- 5 र्थ्याम् मैत्राय श्लाघते / शश्लाघे / श्लाषिता / ऋदित्त्वाद् के न हूस्वः, अशश्लाघत् / "क्तटो-'" 5 / 3 / 106 / इत्यः, श्लाघा / / अथ चान्तास्त्रयोदश सेटश्च 646 लोचङ् दर्शने / लोचते / ऋदित्त्वाद् उ न हूस्वः, अलुलोचत् / क्ते आलोचितम् / अनटि आलोचनम् / “तिक्कृतौ नाम्नि' 5 / 1 / 71 / इति णके लोचकः स्त्रीशिरोवस्त्रम् / लोचूण भासार्थः 10 आलोचयति / “णि-वेत्ति-" 5 / 3 / 111 / इत्यने आलोचना // 647 पचि सेचने / सेचनं सेवनं भजनमिति यावत् / “षः सो-" 2 / 3 / 98 / इति सत्वे सचते / सेचे / षोपदेशत्वात् असीषचत् / “णि-स्तोरेवा-” 2 / 3 / 37 / इति नियमात् षत्वापन्ने सनि पत्वाभावे सिसचिषते। उणादौ "पलि-सचेरिवः” (उ० 522) सचिवः / “कृसि-कमि-" (उ० 773) इति तुनि सच्यते स्नेहेनेति सक्तुः / चन्द्रस्तु षव समवाये इति वान्तमधीते, तन्मते सवति // 15 648 शचि व्यक्तायां वाचि / तालव्यादिः / शचते / शेचे / शचिता / उणादौ "पदिपठि-" (उ० 607) इति इः, शची // 649 कचि बन्धने / कचते / चकचे / सनि चिकचिषते / अचि "पुन्नाम्नि-" 5 / 3 / 130 / घे वा कचाः शिरःप्राग्भागकेशाः / कर्मणि घञि काचः // - 650 कचुङ् दीप्तौ च / चकाराद् बन्धने / उदित्त्वाद् ने कञ्चते। कञ्च्यते / चकञ्च / चिक- 20 श्चिषते / अचिकञ्चत् / क्ते सेट्त्वाद् घ्यणि कत्वाभावे कञ्च्यम्। उणादौ "कञ्चुकांशुक-" (उ०५७) इति उके कञ्चुकः / “कुशिक-हृदिक-" (उ० 45) इति इके निपातनात् कार्चिकम् / “विदनगगन-" (उ० 275) इति अने निपातनात् काश्चनं हेम / “कमि-वमि-" (उ० 618) इति णित् इः, काश्चिः // 651 श्वचि 652 श्वचुङ् गतौ / श्वचते / शश्वचे / शिश्वचिषते / उ अशिश्वचत् // 25 श्वचुङ् / उदित्त्वाद् ने श्वञ्चते / श्वञ्च्यते / शश्वञ्चे / शिश्वञ्चिषते / उ अशश्वञ्चत् / / 653 वचिं दीप्तौ / वर्चते / ववर्चे / वर्चिता। के सेट्त्वाद् घनि कत्वाभावे वर्चः / एवं चान्तेषु जान्तेषु च ते सेट्सु सर्वेषु वाच्यम् / “नाम्नि पुंसि च" 5 / 3 / 121 / इति णके सुवर्णिका टङ्कणम् / 1 आलोचितः संपा१ वा• प्र० // २°चिषति सं१ सं२ तपा० प्र० मु०॥ ३चिकचिषति संपा१ / / 4 सूत्रे आदिग्रहणात् सं१ टि.॥ धा• पा० 11