________________ श्री शान्तिनाथमहाकाव्ये अथ मारीचिप्रवृत्तिमाहगत्वा स धीगेऽशनिघोषकस्य, मारीचिरप्याशु पुरी विवेश / तन्मन्दिरे तज्जननीसमीप-स्थास्नु सुतारां समवेक्षते स्म // 18 // . स धीरः धैर्यशाली मारीचिरपि गत्वा अशनिपोषकस्य पुरी विवेश, तथा, तस्याशनिघोषस्य जनन्याः मातुः समीपे स्थास्तुं स्थितिशीला सुतारा समवेक्षते पश्यति स्म // 180 // તે ધીર મારીચિએ પણ જઈ અશનિષના નગરમાં પ્રવેશ કર્યો અને તે અશનિષના ભવનમાં તેની માતાની પાસે રહેલી સુતારાને જોઈ 18 अथ सुतारामेव विशिष्टि-- आसाद्य भर्नुः कुशलप्रवृत्ति, भोत्येऽन्यथा नेति कृतोपवासाम् / आस्यानि दृश्यानि वियोगिनीनां, नैवेति सध्यानमवाङ्मुखीं ताम् // 181 / / भर्तुः पत्युः श्रीविजयस्य कुशलस्य प्रवृत्ति वार्ताम् “वार्ता प्रवृत्तिवृत्तान्त" इत्यमरः / आसाद्य प्राप्य भोक्ष्ये, अन्यथा कुशलाज्ञाने नैव भाक्ष्ये इति बुद्धया कृतः उपवासः यया तां तादृशों तथा वियोगिनीनां पतिविरहितानाम आस्यानि मखानि नैव दृश्यानि विलोकनोयानि / वियोगिन्यो मुखमन्यं न दर्शयन्ति इति विचिन्त्य सध्यानं ध्यानसहितं यथा स्यात्तथा अवाजमुखीमधोमुखीं तां सुतारां समवेक्षते स्मेति पूर्वेणान्वयः / एतेन तस्या उत्कृष्टपतिव्रतात्वमुक्तम् // 181 // पुनस्तामेव विशिनष्टि-- शीतांशुलेखामिव कृष्णपक्षे, लक्ष्मीमिवान्यायवतां गृहेषु / वाणीमिव प्रातिभवर्जितानां, बाढं कृशां शीलगुणैरुपेताम् // 182 // कृष्णपक्षे शीतांशोश्चन्द्रस्य लेखां रेखामिव, अन्यायवतां दुर्जनानां गृहेषु लक्ष्मी सम्पदमिव प्रातिभेन प्रतिभया वर्जिताना रहितानां वा गोंवा वमिव वाहमयन्तं मां तारा , शो के गेस्वोरेगा युक्ता तां समवेभते स्मेति पूर्वेणान्वयः। अत्रै कस्यैवोपमेयस्याने कोपमानप्रदर्शनान्मालोपमा // 12 // પતિના કુશળ સમાચાર પામ્યા પછી જ ખાઈશ અન્યથા નહિં એમ નિશ્ચય કરીને ઉપવાસ કરતી અને “વિરહિણી સ્ત્રીઓના મુખ જોવા નહીં આ વાત ધ્યાનમાં રાખી નમેલા મુખવાળી અને શીલગુણથી યુક્ત એવી તે સુતારાને કૃષ્ણપક્ષમાં ચંદ્રમાની રેખાની જેમ અન્યાયી પુરુષના ઘરમાં લક્ષ્મીની જેમ તથા પ્રતિભાથી રહિત પંડિતની વાણીની જેવી અત્યન્ત દુબળી જોઈ. 181-182aa आवेदिते तेन पुरः स्ववृत्ते, तत्कालमेवाशनिघोषमाता / तां प्रापयत्साधुपदारविन्द-द्वन्द्वानभूमिस्थिततद्धृदीशम् // 183 // तेन मारीचिना पुरः अग्रे स्ववृत्ते निजोदन्ते आवेदित कथिते अशनिघोषमाता, तत्काम्मेव