________________ 54 ] श्रीशान्तिनाथमहाकाव्ये चलबलस्तस्थौ प्रतिमामेकराविकीम् // 35 / / इति / 'केतनं ध्वजः' इति हैमः / 'गजो' नागः कुञ्जरः इत्यमरः // 173 // ત્યાં સમવસરણ નામના સ્થાનકમાં એક આલયમાં નાગ સ્થાપિત હતા ત્યાં મહત્મા પ્રસિદ્ધ બલભદ્ર અચલ એક રાત્રિક પ્રતિમામાં સ્થિર થઈ રહેલા હતા. ll173 दुष्कर्मधाराधरके निरस्ते, ध्यानानिलेन स्फुरता जगन्ति / निर्भासयन् केवलसंविदंशु-र्योम्नीव तत्राऽऽविरभूत्तदैव // 174 // तत्र स्थाने, स्फुरता प्रौढप्रभावशालिना ध्यानमेव शुक्लव्यानमेवानिलः पवनस्तेन, दुष्कर्मेव धाराधरको मेघस्तस्मिन् निरस्ते विनष्टे जगन्ति, जगत्त्रयं निर्भासयन प्रतिभासयन् केवलसंवित् केवलज्ञानमेवांशुः सूर्यः 'खरसहस्रोष्णांशुरंशू रविः" इति हैमः / व्योम्नि आकाशे इव, तत्राचले मुनौ, तदैव तत्काल एव, आविरभूत प्रादुर्बभूव / आह च "एगराइयं च णं भिक्खुपडिमं सम्म अणुपालेमाणस्स इमे तओ ठाणा हियाए भवन्ति तं जहा-ओहिनाणे वा समुपज्जेज्जा, मणपज्जवनाणे वा समुपज्जेज्जा केवलनाणे वा समुपज्जेज्जा" इति // 174 / / તે જ સમયે તે અચલમાં છુપાયમાન થતા ધ્યાનરૂપી પવનથી દુષ્કર્મ (ધાતિકર્મ) રૂપી વાદળાએ વિખેરાયે છતે સર્વ પદાર્થોને પ્રકાશિત કરતું કેવલજ્ઞાન આકાશમાં સૂર્યની જેમ પ્રગટ થયું. 174 आगाज्जगन्नन्दनचारणर्षि-स्तत्रोत्सवेऽमाप्यभिनन्दनेन / / अन्येऽर्ककीर्त्यग्निजटिक्षमेश-मुख्याः समेयुर्बहवोऽपि चात्र // 175 // तत्र चैत्ये उत्सवे उत्सवनिमित्तम् अभिनन्दनेन तदाख्यमुनिना अमा सह जगनन्दनचारणपिरपि जगन्नन्दनचारणमुनिरपि आगात् / तथा अत्र चोत्सवे बहवः अनेके अन्येऽपि अर्ककीर्तिश्च अग्निज टिः च झमेशौ मुनी मुख्यौ येषां ते तादृशाः अकोादयः अपि समेयुः समागनवन्तः // 17 // ત્યાં ઉત્સવમાં અભિનંદનની સાથે જગતનંદન નામે ચારણ મુનિ આવ્યા અને ત્યાં બીજા પણ અર્થકાતિ અગ્નિજી રાજા વિગેરે ઘણાં રાજાઓ આવ્યા. ૧૭પા तस्यैव सेवां विबुधा विधातु-मभ्यागमन् केवलबोधभाजः। बिभ्यत्ततः सोऽशनिघोषकोऽपि, तत्पादपद्म शरणं प्रपेदे // 176 // ___ तस्यैव केवलबोधं केवलज्ञानं भजतीति केवलबोधभाक् तस्याचलस्यैव मुनेः, सेवा विधातुं कर्तुं विबुधा देवा अभ्यागमन् / सर्वान् तं सेवमानान् दृष्ट्वा ततः ज्वालाविद्यातः भयं प्राप्नुवदिव, सः अशनिघोषकः अपि, तस्याचलस्य पादः पद्ममिव तत् शरणं रक्षकत्वेन, प्रपेदे गृहीतवान् // 176 //