________________ बा. विषपदर्शनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [257 असुमतः सुहृदोऽथ महीभुजा, गतिमपृच्छयत सद्गुरुशेखरः। स पुनराह तदा शुभभावनः, स उदभूद्भवतो दयितोदरे // 223 // अथ, महीमुजा, सद्गुरूणां शेखरः मूर्धन्यः धर्मघोषसूरिः सुहृदः मित्रस्य, असुमतः जीवस्य गतिम् परलोकप्राप्तिम् / अपृच्छयत पृष्टः / स सूरिः, तदा, पुनराह-शुभभावनः शुभध्यानपरायणः स मित्रमुत्, भवतः दयितायाः भार्यायाः उदरे गर्ने उदभूत् पुत्रत्वेन उत्पन्नोऽस्ति // 223 // પછી રાજાએ મુનિને મિત્રના જીવની ગતિ પૂછી. ત્યારે ગુરુ ફરી બોલ્યા કે શુભભાવના વાળે તે તમારી પત્નીના ઉદરમાં ઉત્પન્ન થયેલ છે. રર૩ कमलगुप्त इति प्रथिताभिधः, स भविता भवतस्तनयः परम् / अथ धराधिपतिः स्ववयस्ययोरपि च पूर्वभवौ परिपृष्टवान् // 224 // परम् किन, स भवद्दयितागर्भस्थो मित्रमुज्जीवः, कमलगुप्त इति प्रथिताभिधः ख्यातनामा भवतः तनयः भविता / अथ पुनश्च धराधिपतिरमरदत्तनृपः, स्वस्य वयस्यस्य मित्रस्य मित्रमुदश्च तयोः पूर्वभवो परिपृष्टवान् / / 224 / / તે કમલગુપ્ત નામે અત્યંત પ્રસિદ્ધ એવો તમારો પુત્ર થશે પછી રાજા પોતાના ને મિત્રના પૂર્વભ ૫ણું પૂછયા, 24 सूरिः प्राह, किमित्याहसरिः प्राह पुरे क्वचित् समजनि क्षेमङ्करोऽपि द्विधा, सत्यश्रीरिति गहिनी कुमुदिनी वेन्दोरमुष्यामवत् / ख्यातः कर्मकरस्तयोः स चतुरः सच्चण्डसेनाभिधः, क्षेत्रं रक्षति खाद्यमानमभितः पक्षिवजैः सोऽन्यदा // 225 // कचित्सुरे, द्विधा नाम्नो योगार्थेन चापि क्षेमङ्करः क्षेमकरमामा क्षेमं लोकानां कल्याणं करोतीत्येवंशीलश्च कौटुम्बिकः, समजनि, अमुष्य क्षेमकरस्य गेहिनी भार्या इन्दोश्चन्द्रस्य कुमुदिनीव; सत्यश्रीरिति नाम्नी अभवत् / तयोर्दम्पत्योः स प्रसिद्धः सञ्चण्डसेनाभिधः चण्डसेनेत्यन्वर्थनामा कर्मकरः किङ्करः ख्यातः स चतुरः कर्मसुदृक्षः चण्डसेनः अन्यदा, पक्षिवजैः खाद्यमानं क्षेत्रमभितः रक्षति, स्मेतिशेषः // 225 // મુનિ બોલ્યા કે પહેલા સમયમાં કોઈક નગરમાં નામને ક્રિયાથી પણ ક્ષેમકર નામે કોઈ રહેતા હતા, ચંદ્રમાને કુમુદિનીની જેમ તેની સત્યશ્રી નામે પત્ની હતી, તે બન્નેને ચંડસેન નામનો ચતુર નોકર હતો, તે એક દિવસ પક્ષિઓએ ખાઇ જતા ખેતરની રખેવાલી કરતો હતો. ૨૨પા त्वत्क्षेत्रनिष्ठा नवबीजकोशिकाः, स्वक्षेत्रपार्श्व समवेक्ष्य कञ्चन / लान्तं स्वयं कर्पटिकं स चाह भोः! उल्लम्ब्यतां दस्युरयं वयस्यका 1 // 226 //