SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 256 ] मोवान्टिनापमहाकाये अथ च तत्र वटतरौ ललिवयौवनानां मनोहरतारुण्यानां गोपतनूभवाम् गोपपुत्राणां खेलनं विदधतां कुर्वतां सतां तेषामुदश्चिका क्रोडा साधनमुन्नतिका आडोलिकापराच्या उपरिभागम् ऊध्व: मुखताम् इते गते भवतः सुहृदः आनने मुखे प्रविशति स्म // 219 // ત્યાં મનોહર યુવાન બે ગોવાળીઆઓ રમત રમતા હતા તેની ગોટી ઉછળીને ઉપર લટકાવેલા તમારા મિત્રના મોઢામાં પેસી ગઈ. 21 अवश्यंभाविभावानां प्रतिकारो न विद्यते इत्याह-- त्रिदिवलोकमुपैतु रसातलं, विशतु वा यदि वा भजतां नमः / फलसपैति पुमानविशङ्कितं, स्वविहितानुगुणं हि परं स्वयम् // 220 // पुमान् मरः, उपलक्षणत्वात्प्राणिमात्रम् , त्रिदिवलोकम् देवलोकम् , उपैतु, वाऽथवा, रसातलं पातालं विशतु, यदि वा नभः आकाशं भजताम् , परं हि, स्वयम् यत्नं विनैव, स्वेन विहितस्यैव कर्मणः अनुगुणम् अनुरूपम् , फलम् अविशतितम् असंशयमुपैति, त्रिध्वपि लोकेषु न कुत्राऽपि स्वविहितकर्मफलभोगात्राणमितिभावः / / 220 / / સ્વર્ગમાં જાય કે પાતાળમાં પ્રવેશ કરે, અથવા આકાશમાં સદ્ધર રહે પણ લોકે પોતે કરેલા કર્મના અનસારે નક્કી ફળ ભેગવે જ છે. 22 यतिपतेरितिमित्रसुदुमृतेः, समुपलभ्य कथां नरपुङ्गवः / गुणगणं गणनाऽतिगतं स्मरन् , सदयितः परिदेवनमाधित // 221 // यतिपतेः धर्मघोषसूरेः मित्रस्य सुदुमतेः अत्यन्तानिष्टरीत्या मृतेः इति पूर्वोक्तप्रकारां का समुपलभ्य विज्ञाय, गणानां सङ्ख्यामतिगतमतिक्रान्तम् , अगण्यमितियावत् , गुणगणं स्मरन् अर्थान्मित्रस्यैवेतियोध्यम् / नरपुङ्गवः अमरदत्तनृपः सदयितः समायः परिदेवनं शोकसाधित प्राप्तः // 22 // મુનીશ્વર પાસેથી પોતાના મિત્રની અપમૃત્યુની વાત જાણી રાજા પત્ની સાથે તેના અસંખ્ય ગુણ સમૂહને સંભારતો વિલાપ કરવા લાગે. પર૨૧ गुरुरपि प्रसरद्वचनामृतैः शुगुपतापमपाकृतवांस्तयोः / प्रियवयस्यवियोगनिदाघज, धनजिनागमसङ्गमसंभृतैः // 222 // गुरुः धर्मघोषसूरिरपि, घनो मेघरूपो यो जिनागमः प्रवचनं तस्य सङ्गमेन परिचयेनाभ्यासेनेति यावत् / संभृतैः निष्पन्नः प्रसरन्ति वचनानि देशना एवामृतानि वैः कृत्वा, प्रियस्य वयवस्य मित्रस्य वियोग एव निदाघो ग्रीष्मर्तुः तज्जम् , तयोः नृपतयितयोः शुक् शोक एवोपतापः तापः तमपाकृतवान् शमयति स्म / रूपकालङ्कारः // 222 // ત્યારે ગુરુએ પણ વાદલા રૂપી જેનાગમના સંબંધથી સંપૂર્ણ એવા વિસ્તૃત વચનરૂપી અમથી તે બનેલા પ્રિય મિત્રના વિયોગરૂપી ગ્રીષ્મ ઋતુથી થયેલા શાક પી સંતાપને દૂર કર્યો. 22
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy