________________ आ. विजयदर्शन सूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [15 तस्मिन्पुरे मदीया, जनकस्य पितुः, जामिः भगिनी, अहिरण्या हिरण्य भिन्ना अपि, सादृश्यात् हिरण्यलोमा अभूदिति सम्बध्यते / चम्पकपत्रमिव गौरी गौरवर्णा, चन्द्रानना चन्द्रमुखी तस्याः हिरण्यलोमायाः पुत्रिका, चन्द्रयशोऽभिधाऽभूत् // 47 // ત્યાં મારા પિતાની બહેન સુવર્ણ રહિત–ગરીબ પણ નામે હિરણ્યમાં રહેતી હતી. તેની ચમ્પાના પત્ર સમાન ગૌરવર્ણવાળી ચન્દ્ર જેવા સુંદર મુખવાળી ચન્દ્રયશા નામની કન્યા હતી. શાળા आलोक्य तां मन्मथराजधानी, त्रैलोक्यसुभ्रसुभगत्वमेत्रीम् / कामेन लब्धाऽवसरेण बाणै-रुत्तेजितैः पञ्चभिराहतोऽस्मि // 48 // त्रयाणां लोकानां समाहारत्रैलोक्यं तस्य त्रैलोक्यस्य लोकत्रयस्य या सुभ्रवः सुन्दर्यः, तासां सुभगत्वस्य सौन्दर्यस्य भेत्रीम् अधःकारिकाम् , अत एव मन्मथस्य कामस्य राजधानी प्रधाननिवासरूपाम् तां कन्यकामालोक्य लब्धः प्राप्तः अवसरः येन तादृशेन कामेन कामदेवेन, उत्तेजितैः शाणीकृतैः एतेन वेधसौकर्यमुक्तम् , अतितीक्ष्णैः, पञ्चभिः बाणैः, अहम् आहतः विद्धः एकेनाऽपि अलं वेधः किमु तादृशैः पञ्चभिरिति भावः // 48 // ત્રણે લેકની સ્ત્રીઓની સુદરતાને પરાજિત કરનારી, કામદેવની રાજધાની જેવી તેને જોઈને હું અવસરને પામેલા કામદેવ વડે તીણ એવા પાંચ બાણથી આહત (ઘાયલ) કરાયો હતો. 48 अर्थीव मानं विजहाति लज्जा दूरीकरोत्येव पिशाच कीव / भिन्ते च चार्वाक इवात्मसिद्धिं, कन्दर्पबाणैरभिताड्यमानः // 49 // कन्दर्पस्य कामस्य बाणैः अभिताड्यमानः विध्यमानः जनः लज्जाम् , अर्थी याचकः मानं सन्मानमिव, विजहाति त्यजति तथा, आत्मसिद्धिम् आत्मज्ञानम् , पिशाचकी पिशाचाविष्टः, पिशाचपूजको वा स इव, दूरीकरोत्येव / पिशाचादेः दुष्टार्थसाधकत्वात् असदर्थिनश्चात्मज्ञानाऽसंभवादिति भावः / चार्वाकः लौकायतिकः स इव भिन्ते खण्डयति च / चार्वाका हि पिष्टोदकगुडादिभ्यो मदशक्तिवत् भूतेभ्य एव चेतनोत्पत्तिं मन्वते, न त्वात्मा चेतनः पृथक् तेषां मते इति भावः। तथा कामार्तोऽपि आत्मज्ञानं नाशयतीति भावः // 49 // કામબાણોથી પીડાતો જીવ યાચકની જેમ માનને ત્યાગ કરે છે, પિશાચ ગ્રસ્તની જેમ લજજા છોડી દે છે, અને ચાવાકની જેમ આત્મસિદ્ધિ, આત્માની સત્તા, આત્મવીર્યને તોડી નાખે છે, ગુમાવી બેસે છે. જલા दीक्षां प्रतिज्ञामिष हीनवादी, सन्त्यज्य तां प्रार्थ्य कथंचनापि / भव्ये मुहूर्ते परिणीय तत्रा-ऽवात्सं प्रजावत्सल ! निश्चलः सन् // 50 // प्रजावत्सल ! हीनं मिथ्या वदतीत्येवंशीलः, प्रतिज्ञामिव दीक्षां सन्त्यज्य, तां कन्यकाम् कथंचनापि केनाप्युपायेन, प्रार्थ्य याचयित्वा, भव्ये शुभे मुहूर्ते काले, परिणीय विवाह्य, निश्चलः सन् तत्रावात्सम् // 50 //