________________ -प्रा. विषयदर्शनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [ 235 तव, वलयस्य अपहृतावपहरणे केवलं न पटुरहमितिशेषः। किन्तु, मनसः, अर्थात्तवैव, नवो विलक्षणो यो लयः आनन्दः तस्य अपहतो, नयने नवानन्दप्रापणे अपोति शेषः / अलं सम अस्मि / तदुपायमाह-कुवलयाक्षि ! पक्षनेत्रे ! तव दक्षिणे सक्थनि उरौ, च अहम् , अङ्कनम्-चिह्नम्, विहितवानस्मि / मदुक्ताकरणे तदेव तव निग्रहोपायो भवितेतिभावः // 15 // હું તમારા કંગનનું હરણ કરવામાં નહિં, પણ તમારા મનના નવા રાગનું હરણ કરવામાં સમર્થ છું. - હે કમલાથી તમારા જમણા સાથળ ઉપર હું ચિહ કરી ચૂક્યો છું 15 शुभवती भवती नृपतेः पुरः, कनि ! मया खलु मारिरितीरिता। जड़धिया निजकार्यविधित्सया, परमघं नहि दूषणरोपणोत् // 152 / / कनि ! कन्ये ? भगिनि ? जड़धिया-मन्दबुद्धया हेतुना उत्तमस्य दूषणं जड़बुद्धेरेव विजृम्भितमितिभावः / खल्विति अलीके, मया, शुभवती कल्याणभागिनी भवती, नृपतेः पुरोऽग्रे मारिः इति इत्येवम् , ईरिता कथिता, अस्तीतिशेषः, एवश्च मया निजबुद्धिवैभवेन त्वं पाशिताऽसीति मदुक्तं त्वयाऽ वश्यं कर्त्तव्यम, अन्यथा तवानर्थ इति भावः। नन निर्दोषस्य दूषणे तव महत्पातकमिति चेत् , स्वकार्यसाधनाय दूषणारोपणं नाऽत्यन्तं पातकाय, अन्यथा कार्यासिद्धरित्येतदाह-हि यतः, निजकार्यस्य विधित्सया चिकीर्षया, एवं च निरर्थक दूषणारोपणं महापातकायेतिभावः / दूषणस्य रोपणादारोपात्, परमत्यन्तमघं पातकं न नैव तथा च यत्किश्चितपातकं निजकार्यविधित्सुना सोढव्यमेव भवति, अन्यथा कार्यसिद्धेमहानर्थसम्भवादितिभावः // 152 / / હે શુભલક્ષણવાલી કન્ય ! રાજાની આગળ જડ મતિના લીધે મેં આપ મારી છે એમ કીધું છે– પિતાના કાર્ય સાવધાની ઈચ્છાથી બીજાને દોષ આપવાથી કેઈ પાપ થતું નથી. ૧૫રા अथ पूर्वश्लोकद्वयेन दण्डभेदावुक्त्वा सम्प्रति साम प्रयुञ्जानः स्वकार्यमपि सहैवाह भ्रुणु यतोऽस्ति सुहृत् सुमपत्तनेऽप्यमरदत्त इति प्रथिनो मम / सुरगृहे तव रूपकपुत्रिका-सुभगताकलनात्स भवन्मयः // 153 // यतः यस्माद्धेतोः मयैतत्कृतम् , तच्छृणु, सुमपत्तने कुसुमपुरे, पाटलिपुत्रापरनाम्नि वा / "पाटलिपत्रं कुसुमपुर"मितिहैमः / सुरगृहे देवमन्दिरे तव, रूपकपुत्रिकायाः त्वदाकृतितुल्यपाञ्चालिकायाः सुभगतायाः सौन्दर्यस्य आकलनात् अवलोकनात् हेतोः, भवन्मयः त्वद्धथानपरायणः, मम सुहृदस्ति स अमरदत्त इति प्रथितः ख्यातः // 153 / / | સાંભળો, મારો અમરદત્તનામે પ્રસિદ્ધ મિત્ર જ્યાં કસમપુરમાં છે. તે દેવ મંદિરમાં તમારા રૂપની પુતલીને સૌદર્ય જેવાથી તમારામાં લીન થઈ ગયો છે. 153 ____ मनु भवत्वसौ मन्मयः, न तत्र मम दोषः, तथा च निर्दोषाया दूषणं पामरकृत्यमिति चेत्, न, त्वयि दूषणारोपणद्वारा तव प्राप्तिरेवेष्टा, अन्यथानर्थसम्मवादित्याहनिधनां त्वदलम्भनतो गमी, गमितशक्तिरसौ स्मरसायकैः / सुहृदहं भवदर्थमिहागमं, कपटमारचयं किल, तादृशम् // 154 //