SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 234 ] श्री शान्तिनाथमहाकाव्ये ननु सा तव पुत्री भवतु, तेन मम कि प्रयोजनमिति चेत्तत्राहयदि तवास्त्यपि शक्तिरनाहता, तदिमिकां निगृहाण गृहाण च। .. प्रथममेव निरीक्ष्य परीक्ष्य च, प्रवदितास्मि नृपेति च सोऽवदत् // 148 // यदि तव, अनाहता अनभिभवनीया, अन्यथा तु निग्रहो ग्रहणं वा मारेस्त्वया न सम्भवतीतिभावः / शक्तिरप्यस्ति, न तु केवलं साहसम् , तत्तदा, इमिकामिमा मम पुत्री, निगृहाण वशीकुरु, स्वशक्स्या, तस्या मारित्वादितिभावः / गृहाण च स्वीकुरु च, मन्त्रादिशक्तिमानेव मारि प्रहीतुं शक्नोतीतिभावः / स च तथा पृष्टः मित्रमुच्च, अवदत् . किमित्याह-नृप ! प्रथमं पूर्वमेव, न तु प्रहणानन्तरम् , परिहासोपद्रवादेः सम्भवादितिभावः / निरीक्ष्य परीक्ष्य विचार्य च, प्रवदितास्मि कथयिष्यामि // 14 // ને તમારી પાસે જોરદાર શકિત હેય તે આને નિગ્રહ કરે, ને આનું ગ્રહણ પણ કરે. ત્યારે તેણે કીધું કે હે રાજા પહેલા તેને જોઈને પરીક્ષા કરી પછી કહીશ. 148 नृपतिदेशवशात्समुपागतं, सदकरोद् नृपतेस्तनयाऽपि तम् / किमुचिताचरणव्यभिचारणां, विदधते क्वचनापि महाशयः 1 // 149 // नृपनिर्देशवशात् राजाऽऽशामासाद्य, समागतं तं मित्रमुदम् , नृपतनया, अपिना नृपोऽपि, सदकरोत् सत्कारमकार्षीत् , तत्सत्कारं समर्थयति महाशयाः उदारमनसः, क्वचनाऽपि, उचिवस्त्र लोकाविरुद्धस्य आचरणस्य व्यवहारस्य व्यभिचाराणामतिक्रमं विदधते किम् ? नैवेत्यर्थः / अर्थान्तरन्यासः, सामान्येन विशेषस्य समर्थनात् // 149 // / રાજાની આજ્ઞાથી પાસે આવેલા તે મિત્રમંદને રાજપુત્રીએ પણ સત્કાર કર્યો, કેમકે મહાશયી કયાંય પણ ઉચિત શિષ્ટાચારમાં ચૂકે છે? નહીજ 149 अथ जगौ जगतीपतिनन्दना-ममरदत्तसुहृद् यदहं ब्रवे / शुभमुताशुभमेव मदीरितं, तदविमर्शमिदं क्रियतां त्वया // 150 // अथानन्तरम , अमरदत्तसुहृत् मित्रमुत् . जगतीपतिनन्दना राजपुत्री जगौ तदेवाह-यत् अहं ब्रवे कथयामि, तदिदं मदीरितं शुभम् उताथवा अशुभमेव वा, अविमर्शम् विमर्शाभावपूर्वकम् अविमर्शमित्यव्ययीभावः / शुभम् अशुभम् वाऽविचार्यव, त्वया क्रियताम् / अन्यथा उभयोरेवावयोर्हानिसम्भव इति भावः // 150 / / પછી રાજાની પુત્રીને મિત્રમુદે કીધું કે જે હું કહું છું શુભ કે અશુભ તે મેં કહેલું તમારે વિચાર્યા શિવાય કરવાનું છે ૧૫ના ___ मदुक्ताकरणे तव निग्रहोऽवश्यंभावी तथोपायसद्भवात्तदेवाह न वलयोपहृतौ तव केवलं, नवलयापहृतौ मनसोऽस्म्यऽलम् / कुवलयाक्षि ! च सक्थनि दक्षिणे, विहितवानहमस्मि तवाङ्कनम् // 151 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy