SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 231 . उपगता रमणीयताकृतिः, कुणपसिन्निधिमेव तुरीयके / प्रहर आगमिता ननु मान्त्रिकै-र्व रमणी रमणीयविभामरैः॥१३९॥ तुरीयके चतुर्थे प्रहरे, कुणपस्य शवस्य सन्निधिं समीपे एव, नत्वन्यत्र, एतेनागतायाः पूर्वागतसजातीयत्वं सूचितम् / रमणीयो विभाभरः कान्त्यतिशयो येषां तैः प्रभावशालिभिर्मान्त्रिकैः, व इव ज्ववा यथा तथेवैवमि"ति "वं प्रचेतसि जानीयादिवार्थे च तदव्ययमिति" चामरः / रमणीयतमाआकृतिर्यस्यास्सा तारशी सौन्दर्यशालिनी रमणी स्त्रीः / यद्वा रमणीयप्रभाभः रमणीयतमाऽकृतिः इत्येवमन्वयः / आगमिता प्रतीक्षिता भाविवृत्तान्तं प्रतीक्षमाणेन मयेतिशेषः, उपगता-प्राप्ता / मान्त्रिकैः मन्त्रिप्रभावाद्यथा काऽपि स्त्री समाकार्यते तथैव कालं हरता मया प्रतीक्षिता सा रमणी प्राप्तेत्यर्थः / / 139 // નાના પ્રકારની ક્રીડા, નૃત્યને અવાજેથી લાંબા કાળ સુધી રહીને તે અન્નહિત થઈ ગયું. અને હું તેમાંથી પરાભવ પામ્યા સીવાય સાવધાન ને નિર્ભય થઈને બેઠો છું તેટલામાં શબની પાસે ચોથા પહેમાં શ્રેષ્ઠ મણિના મનહર કાન્તિવાળા માંત્રિકો વડે આવાહન કરાયેલી અત્યન્ત મનોહર રૂપવાળી કોઈ સ્ત્રી આવી. 138139aaaa सनय ! मारिरिति प्रतिपद्य साध्रियत वामकरे प्रसभं मया / विदधती प्रपलायनमेषिका, सपदि दक्षिणसक्थनि लाञ्छिता // 140 // सनय ! नययुक् ! नीतिज्ञ ! राजन् ! मारिस्तदाख्यदेवयोनिविशेषः / इति प्रतिपय बुद्धवा सा रमणी, मया प्रसभं बलात्कारेण वामकरे अध्रियत गृहीता, प्रपलायनं विदधती, करग्रहमोचनाय, परिचिता स्यामिति भयाद्वेतिभावः, एषिका प्रस्तुता रमणी सपदि तत्कालम, दक्षिणे सक्थनि ऊरौ "सक्थ्यः " इति हैमः / लाञ्छिता चिह्नवती कृता / एतेन मनुष्याः सम्भवे तत्परिचयार्थम तथाकरणमिति स्वस्य मतिमत्त्वम् , भयहेतौ सत्यप्यभीतत्वान्महासाहसिकत्वश्च सूचितम् // 140 / / - હે નીતિમાન રાજ ! આ મરકી છે એમ ધારીને મેં બળપૂર્વક તેને ડાબે હાથ પકડી લીધે, તે ભાગી જવા કે શીશ કરતી હતી. તે વખતે તેના જમણુ સાથળમાં ચિહ્ન કરી દીધા હતા. ૧૪ના ___ ननु तवैतत्कृतौ किम्प्रमाणमिति चेत्तत्राहरभसनाशविकृष्टकराम्बुजे, मम करे किल तद्वलयं स्थितम् / नृपनिदेशवशादथ दर्शिते-ऽत्र नृपतिर्मनसीदमचिन्तयत् // 141 // रससं हठाद्यो नाशः पलायनं "नशनं च पलायने" इति तस्मिन् सति विकृष्ट कराम्बुजे, तद्वलयं रमण्याः कटकम् “कटको बलयं" इति हैमः / मम करे स्थितम् , करमाच्छोट्य सा तु पलायितवती, किन्तु करविकर्षणाकर्षणकर्मणि तद्वलयं तत्करानिःसृतम् , तच्च मम करे स्थितमिति तदेवाकाट्य प्रमाणमितिभावः / अथ, नृपस्य निदेशवशात् , तन्मा दशयेत्येवमाज्ञावशाहर्शिते अत्र वलये विषये नृपतिः मनसि इदं वक्ष्यमाणप्रकारमचिन्तयत् // 14 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy