SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 229 . क्षितिपतेर्वरपत्तिमिराहतः, स उपदासहितो वणिगीश्वरः / उपगतः प्रणतो नृपभाषितोऽवगततत्वमुवाच कृताञ्जलिः // 132 / / क्षितिपते राशः, वरपत्तिभिः श्रेष्ठराजपुरुषैः, आहृतः गृहीत्वाऽऽनीतः, स वणिगीश्वरः, उप. श्योपायनेन सह उपगतः समागतः, रिक्तहस्तो न लोक्येत राजानं देवतां गमित्यत्तरितिभ प्रणतः कृतप्रणामः, नृपेण भाषितः पृष्टः, अवगतत्त्वं ज्ञाततत्त्वं यथा स्यात्तथास्वरूपं ज्ञात्वेत्यर्थः / कृताञ्जलिः, उवाच न्यवेदयत् / अवगतत्त्वं यथा स्यात्तथोवाच / क्रियाविशेषणम् // 132 / / રાજાના સિપાઈઓએ પકડી લાવેલા તે વણિક એક ઉપહાર સાથે પાસે આવી પ્રણામ કર્યો ને રાજાથી પૂછાયેલે છતો વાત સમજીને હાથ જોડી બેલ્યો. ૧૩રા अवनिवासव ! पुत्रविपत्तितः, शुचमकार्षमहं दिवसत्रयम् / व्यवहृतिः परमा परमार्थतो, भजति ना न विनैव तया सुखम् // 133 // अथ वणिजो निवेदनमेवाह-अवनिवासव ! राजन् ! अहम् , पुत्रविपत्तितः पुत्रमरणाद्धेतोः दिवसत्रयम् , भुचं शोकमकार्षम् , कार्यमानं त्यक्त्वा शोकसम्मग्नोऽतिष्टमित्यर्थः / "शोकः शुक शोचनं खेदः" इति हैमः / अवश्यंभाविनि भावे तथाकरणमबुधविलसितमिति चेत्तत्राह-परमार्थतः, व्यवहृति व्यवहारः, लोकाचार इत्यर्थः / परमा प्रधानम्, इष्टवियोगे तथाकरणस्य लोकाचारादितिभावः / लोकाचारत्यागेऽनुपपत्तिमाह ना पुरुषः, तया व्यवहृत्या विना, सुखं लोकसम्मानादिरूपं नैव भजति, अतो मया तत्कृतमिति भावः // 133 // હે રાજા પુત્ર મરી જવાથી હું ત્રણ દિવસ સુધી શેક પાલ્યા હતા. પરમાર્થ રીતે વ્યવહાર સર્વ શ્રેષ્ઠ છે. તે સાચવ્યા વિના મનુષ્ય સુખ પામતે નથી. 133 प्रभुपदाम्बुजयुग्ममयं ततः, सुमतिराश्रितवान्मतिमत्प्रियः। इति निवेद्य विसृज्य च तद्धनं, गृहमिते वणिजे तमवग् नृपः // 134 // ततः शोकसम्मग्नतया मया प्रतिज्ञाताद् दानाद्धेतोः, मतिमतां प्रियः, अयं प्रत्यक्षः, सुमतिः मतिमानभियोक्ता, विज्ञप्ता विज्ञप्त्यर्थ, प्रभुपदम्बुजयुग्ममाश्रितवान् अभियोगकर्णार्थ तव समीपमागत इत्यर्थः / इति पूर्वोक्तप्रकारम् , निवेद्य, तत्प्रतिज्ञातं धनम् , विसृज्य दत्त्वा च, वणिजे गृहम् इते गते सति, नृपः, तं मित्रमुदम् , अवक् पृच्छति स्म // 134 / / - किमवगित्याह-कथयेतिकथय सत्त्वनिधे ! कुणपं त्वया, कथमिदं परिरक्षितमक्षतम् ? / स निजगाद निबध्य महीपते !, परिकरं दृढमत्यवधानतः // 135 / / सत्त्वनिधे ! आत्मबलभूयिष्ठ ! कथय किमित्याह-इदं प्रकृताभियोगविषयं कुणपं शवम् , अक्षतम्-यथातथम् त्वया, कथं परिरक्षितम् , कन्यादाना बलवत्त्वात् / ततः शव-रक्षणस्य दुष्करत्वा श्रे. तसा
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy