SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ बा, विषयदर्शनसूरीधररचितवृत्तिसहित अष्टमः सर्गः [ 227 उपनमन्तमनन्यसमाकृति, सुकृतवीच्यमवेक्ष्य च कन्यका / वितनुते किमयं तदवेक्ष इ-त्युपधितः स्वपिति स्म सविस्मया // 126 // अनन्या अनुपमा समाकृतिः अन्येन सह समा सदृशी आकृतिराकारो यस्य सोऽन्यसमाकृतिः न तथेत्यनन्यसमाकृतिः तम्, रूपं यस्य तं तादृशम् , अत एव सुकृतेन पुण्येन वोक्ष्यं दर्शनोयम्। नहि दर्शनीयदर्शनं पुण्येन विना भवतीतिभावः / उपनमन्तमुपरिगच्छन्तम् , पार्श्वमागच्छन्तम् , गवाक्षे लम्बमानमित्यर्थः। च समुच्चये / अवेक्ष्य कन्यका मणिमञ्जरी, सविस्मया महासाहसिकोऽयमिति जातविस्मया सती, अयमुपनयनपुरुषः, किं वितनुते करोति ? तत् अवेक्षे पश्यामि, इति एतादृशाभिप्रायेण, उपधितः, छलेन, सकपटमित्यर्थः। स्वपिति स्म, तद्व्यापारनिरूपणाय छलनिद्रामाश्रितवतीत्यर्थः // 126 // અનુપમ રૂપવાળાને પુણ્ય બલેજ જેનું દર્શન થઈ શકે એવા મિત્રમૂદને ઊંચે ચઢતા જોઈ મણિમંજરી આ શું કહે છે. તે જોઈએ એમ વિચારી કપટપૂર્વક વિસ્મય સાથે સુઈ ગઈ. 12 स च विकृष्य ततः क्षुरिकां शिता, करिकराकृतिदक्षिणसक्थनि / किमपि तां करभोरुमलाञ्छय-द्वलयमादित वामकराद् द्रुतम् // 127 // ततः गवाक्षप्राप्त्यनन्तरम्-स मित्रमुत् , शितां तीक्ष्णाम , एतेन सामान्यतः स्पर्शनेऽपि आघातसम्भावना सूचिता / क्षुरिका शस्त्रीम् विकृष्य क्षुरिकाधान्याः हस्ते गृहीत्वा, तां पुरः सुप्ताम् करभाविवोरू यस्यास्ताम् , “मणिबन्धादाकनिष्ठात्करस्य करभो बहिः"रित्यमरः। अत्र करभोरूमिति ह्रस्वान्तपाठः प्रामादिकः / उपमानपूर्वपदादूरुशब्दस्य स्त्रियामूशासनादित्यवधेयम् / करी हस्ती तस्य करः शुण्डादण्डः स इवाकृतियस्य तत् तस्मिन् करि करोपमिते दक्षिणे सक्थनि ऊरौ, किमपि अज्ञातप्रकारम् , अलान्छयत् चिह्नं कृतवान् प्रत्यभिज्ञार्थमितिभावः / तथा,-वामकराद् वलयं कटकम्"वलयं कटके सानावि"त्यमरः / द्रुतम्-विलम्बे निद्राभङ्गसम्भवेन कार्यविनापत्तेरितिभावः / आदितगृहीताश्च // 127 // ત્યાર પછી તે મિત્રમુદ તેજ ધારવાલી ચપ્પ કાઢી સુંદર રંધાવાલી તે મણિમંજરીના હાથીના સુંઢ જેવા જમણા સાથલમાં કંઈક ચિન્હ કર્યું ને તેને ડાબા હાથને કંગન જલ્દીથી લઈ લીધો. ૧૨ના करणशक्तियथागतवर्मना, पणवधूभवनं प्रविवेश सः / प्रतिपदा सचिवेन महौजसा, तदिह किं नहि यत्सुकरं नृणाम् ? // 128 // स मित्रमुत्, फरणस्य रज्ज्वादिसाधनस्य यद्वा करणस्य शरीरस्य "करणं करणे कामे " इति जयकोशः / 'करणकायम्' इति हैमः / शक्त्या प्रभावेण, यथाऽऽगतेन येनैवाऽऽगतस्तेनैव वर्मना मार्गेण "अयनं वर्त्म मार्गाध्वे"त्यमरः / पणवध्वाः वेश्यायाः पूर्वोक्तकुटिन्या भवनं प्रविवेश / इह तत् किम् कार्यम्, यत् प्रतिपदा बुद्धिरूपेण सचिवेन सहायकेन महौजसा बलवता सुकरं नहि अर्थात्सर्वमेव सुकरमेवेत्यर्थः। बुद्धिमता बलवतां नृणां किं सुकरं नहि भवति ? // 128 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy