SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 208 ] श्रीशान्तिनाथमहाकाव्ये स नृपतिः श्रुतिमृतिं कर्णमार्गम् “अयनं वर्त्ममार्गाध्वपन्थानः पदवीसृतिरि" त्यमरः / तखनिमित्तज्ञस्य वचः विनिवेश्य कृत्वा श्रुत्वेत्यर्थः / हतः प्राप्ताघात इव, सभां व्यसृजत् , तथा मन्त्री मतिसागरः स्वपदाम्बुजैः मम गृहं पुनीहि, इतीत्थं निरूप्य, अभ्यर्थ्य, आलयम् स्वगृहं समानयत् , निमित्तशः तमिति शेषः / नयतिथेयाः, आतिथ्यं विपद्यपि त्यजन्तोतिभावः // 62 / / કાનના અંકુશ સમાન તે વાત સાંભળી આઘાત પામેલા જેવા રાજાએ સભાનું વિસર્જન કર્યું. ને ચરણકમળથી મારા ઘરને પવિત્ર કરે એમ કહી જેશીને ઘરે લઈ ગયા. દરા स्म परिपृच्छति मन्त्रिवरः स तं, गणकमुल्वणभक्तिपुरःसरम् / यदुदितं विदितं नृपतेः पुरः, सरलतां प्रतिपद्य तदुच्चर // 63 // युग्मम् // म मन्त्रिवरः तं गणकम् , उल्बणा उत्कंठा या भक्तिः तत्पुरःस्सरं तत्पूर्वकम् , परिपृच्छति स्म, किमित्याह-नृपतेः पुरोऽग्रे, यदुदितं कथितं, त्वयेति शेषः, तद् विदितं ज्ञातं, मयेति शेषः / तत्तदेव, सरलता प्रतिपद्य स्वीकृत्य, येन क्रमपुरःसरं बोधः स्यात्तथा, उच्चर कथय / / 6 / / તે મન્ની શ્રેષ્ઠ તે બેશીને ઉત્કટ ભક્તિપૂર્વક પૂછ્યું કે રાજાની આગળ આપે જે કરવું તે જાણું હવે કઈ સરળ થઈને બે. __ अकथि तेन सुबुद्धयभिधाश्रुता-तव सुतात्प्रथमाद् भविता मृतिः / इति निशम्य विनिर्मितसत्कृति, स विससर्ज निमित्तविदं रयात् // 6 // तेन निमित्तज्ञेन अकथि कथितम् , किमित्याह-सबुद्धयाभिधया सुबुद्धिनाम्ना तात्प्रसिद्धाचवप्रथमाज्जेष्ठात्सुतात् मृतिर्भविता भविष्यति-जेष्ठपुत्रात्तव मरणान्तकष्टं भविष्यतीत्यर्थः इतीत्यं निशम्य श्रुत्वा रयात् शीघ्रतया, विनिर्मिता कृता सत्कृतिः सत्कारो यस्य तं तादृशं निमित्तविदं बिससर्ज // 64 // ત્યારે તે જોશીએ કીધું કે તમારા સુબુદ્ધિ નામના જયેષ્ઠ પુત્રથી તમારું મૃત્યુ થશે, એમ સાંભળી તે મંત્રીએ સારા સત્કાર કરી જલ્દીથી નિમિત્તાને રજા આપી. 64 अशनपानकमत्रपुरीषक-स्थलततीविरचय्य निवेद्य च / तमपि पुत्रमहो ! गुरुपेटिका-न्तरमुमक्षिपदक्षयकौशलः // 65 // अझयम् अमेयं कौशलं चातुर्य यस्य स तादृशः मतिसागरः, अशनस्य भोजनस्य पानकस्य जलादिपानस्य मूत्रपुरीषकयोश्च सम्पादनार्थ स्थलततीः प्रकोष्ठपरम्पराम् विरचय्य कारयित्वा, निवेद्य, विबोध्य च तं सुबुद्धिनामानं पुत्रं गुर्वी महती या पेटिका तस्या अन्तरमन्तः-अन्तरमध्ये अमुम् यत् श्वेतं कृष्णं तातस्समादिशति तत्करणशीलं विनयननं, उपक्षिपत् स्थापितवान् / अहो ! इत्याश्चर्ये तबुद्धिकौशलस्य, भाविनो वा निरोधोद्यमस्य विलक्षणत्वात् // 65 // અરે ! અખૂટ કૌશળવાળો તે મન્ચી ખાવા પીવાની પાયખાના ને પેશાબની બધી જગ્યા બનાવી ને બધું મૂકી જણાવી ને પેટીની અંદર તે પુત્રને મૂકી કીધે, ૬પા
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy