________________ 118 ] मीचाहिनापमहाकाव्ये रत्नमस्मरदसौ विनिहन्तु-मापदं तदपि वृत्तममीप्टम् / मारुतोत्थिततरङ्गविनुन्न-स्तीरमाप स तदैव तिमिश्च // 166 // असो धनदः, आपदं तिमिप्रासरूपं सङ्कटं विनिहन्तुं विनिवारयितुं रत्नं देवीप्रदत्तापन्नाशकरत्नस्मरत् / तदपि अभीष्टं मनोवाञ्छितफलदायकं “यद्यदस्ति विधिना लिखितम्" इत्यादि वृत्तं पूर्वश्लोकश्चास्मरन् तदैव तत्क्षग एव रत्नस्मरणगाथार्थस्मरणक्षण एव च, स प्रसिता तिमिः, मारुतेन महावातेन उत्थितः उल्लुलितो यस्तरङ्गस्तेन विनुन्नः प्रेरितः सन् तीरमाप गतः // 166 / / | ( પછી ) તેને આપત્તિ દૂર કરવા માટે તે રત્નનું સ્મરણ કર્યું ને જેમ કર્યું હતું તેમ થયું, પવનથી ઉઠેલા તરંગથી પ્રેરાઈને તેજ વખતે તિમિ મત્સ્ય તીર પર પહોંચી ગયા. 16 वीक्ष्य तं सपदि धीवरवण्ठा, पाणिसंचितकठोरकुठाराः / धाविता जठरदारणपूर्व, जघ्नुरेषु निरगाच्च यथास्थ, // 167 // तं तीरगतं तिमि वीक्ष्य द्रुतं गताः, पाणौ संचितः गृहीतः कठोरस्तीक्ष्णः कुठारः अत्रविशेषः यस्ते तादृशाः कुठारपाणयः, धीवराश्च ते वण्ठयति इति वण्ठाः विभाजकाः मत्स्यभागप्राहिणः, जठरस्य तिमिमत्स्योदरस्य दारणं विदारणं पूर्व यस्मिन् कर्मणि तद्यथा स्यात्तथा, उदरं विदार्यत्यर्थः जन्नुः तिमिमत्स्यं मारयामासुः / एष धनदश्च यथास्थः पूर्वावस्थ एव न तु मत्स्योदरे अनादिवैकल्यं प्राप्तः / तत्र स्थितिकालस्याल्पत्वात्स्मृतश्लोकमाहात्म्याच्वेति भावः / निरगात् तिमिमत्स्योदरादहिर्निर्गतः // 167 // તે તિમિને જોઈને હાથમાં લીધેલા તીક્ષણ કુહાડાવાલા મજબૂત માછીમારી મા ને પેટ ફાડીને તેને મારી નાંખ્યો ને તેનાથી ધનદ જેવો હતો તે નીકળ્યા. ૧૬ના विस्मितास्तदवलोकनतस्ते, तत्क्षणानिधिविलोकनवचम् / हृद्यमान्तमिव वेत्रिमुखेन, माभुजे निजभियैव शशंसुः // 168 // से धीवराः, तस्य मत्स्योदरनिर्गतस्य धनदख बबलोकनतः विडोकनात् निः विलोकनत इव विस्मिताः आश्चर्य कौतूहलं वा प्राप्ताः सन्तः, तं धनदं हृदि अमान्तं संनिवेशमप्राप्नुवन्तमिव, तत्क्षणात् निजभिया अक्थने राजा दण्डयेदिति स्वभिया एव, वेत्रिणः द्वारपास मुखेन करणेन, क्ष्मामुळे राज्ञे शशंसुः कथयमासुः / / 168 / / કેઈ ખાને જોતા હોય તેમ તેને જોઈને વિસ્મય પામેલા માછીમારોએ તાત મનમાં સમાતું ન હેય તેમ જાણે દ્વાર પાલના મુખે રાજાને પોતેજ ડરીને કીધું. 168 , भूभुना कनकपूर्वरथेना-हाय्य निर्मलालादि स पृष्टः / स्वं जगौ वणिजमेव नरेन्द्र-स्याग्रहोऽवितथमेव हि भाष्यम् // 169 //