________________ श्री शान्तिनाथमहाकाव्ये પ્રિયવચનથી કીધું કે ફેગટ અધીરા થાવ નહિં. અને મનમાં ખેદ કરો નહિં. ભાગ્ય પગે તમારે તે પતિ મૃત્યુને પામ્યો. તે તેમાં શોક ને હેય. હે સુન્દરી તેના સ્થાને મને રાખે જેથી બધા સુખ સુલભ થાય. 15 / ननु स्वजनापाये शोक उचित एवेति चेत्तत्राह-- आससाद नियतेरपमृत्युं, तावकः स पतिरत्र न शोकः / तत्पदे सुतनु ! मामभिषिञ्च, येन शर्म सकलं सुलभं स्यात् / / 160 // तावकः तव स पतिः धनदः, नियतेः भाग्यवशात् , अपमृत्युमकालमृत्युमाससाद प्राप, अत्र विषये शोकः न, उचित इति शेषः, भाग्याधीनकार्ये शोको न बुद्धिमतामुचितः, तस्यापरिहार्यत्वादिति भावः / ननु न तन्मात्रत एव शोकः, किन्तु असहायां मां को रक्षितेत्यतोऽपि शोकः इति चेत्तत्राहसुतनु ! सुन्दरि ! तस्य स्वपतेः पदे स्थाने मामभिषिञ्च, मां स्वपतित्वेन स्वीकुरु, येन विधिना सकलं शर्म सुखं सुलभं स्यात् , एवं च न त्वमसहाया, किन्तु सातिसहाया स्या इति भावः // 160 // ભાગ્યયોગે તમારો તે પતિ મૃત્યુને પામ્યો છે તેમાં શોક ન હોય. હે સુન્દરી! તેના સ્થાને મને રાખે જેથી બધા સુખ સુલભ થાય. ll16 ના दुष्कृतप्रवणमेव तदीयं, चेष्टितं समवधार्य हृदन्तः / साभ्यधत्त यदि भद्र ! नृपस्ते, मां प्रदास्यति तदा तव जाया // 161 / / सा तिलकसुन्दरी हृदन्तः मनसि दुष्कृतस्य पापस्य प्रवणमुन्मुखमेव, तदीयं देवदत्तस्य चेष्टितं समाचरणं समवधार्य वुद्ध्वा निश्चित्य वा, अभ्ययत्त ऊचे / भद्र! यदि नृपः, मां ते तुभ्यं प्रदास्यति, सदा तव जाया पत्नी, अहं स्यामिति शेषः / पित्रधीना हि कन्या, न स्वयं कमपि वरीतुं समर्था, अनौचित्यादिति भावः // 161 // તે તિલકસુન્દરી મનમાં તેની પાપાભિમુખ ચેષ્ટા જોઈ બોલી કે હે ભદ્ર! જે રાજા તમને મને આપશે તે હું તમારી સ્ત્રી થઈશ. 11 ननु एवमुक्त्वा सा तं विप्रतारितवती, तस्याः पितुरभावादित्यत आह-- सङ्कटे निपतिता विधियोगात् , प्रार्थयन्तमपरं पुरुष वा / विप्रतार्या परिरक्षति शीलं, काचनापि निजवंशपताका // 162 // बिधियोगाद्भाग्यसंयोगात् , संकटे विपदि पतिवियोगादिरूपे निपतिता सङ्कट सम्प्राप्ताऽपि काचन, निजवंशस्य महत्त्वसूचकत्वात्पताका इव, स्त्री, प्रार्थयन्तं याचमानमपरं पुरुषं विप्रतार्य वञ्चित्वाऽपि शीलं स्वचारित्रं परिरक्षति, एवं च तद्विप्रतारणमस्याः नानुचितम्, प्रकारान्तरेण शील