SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 94 ] श्री शान्तिनापमहाकाव्ये आन्तराणि करणानि नराणां, न स्वरूपमववारयितुं ते / विस्फुरन्ति धिषणा धिषणानां, बोधवारिधुतकर्ममलानि // 86 // धिषणानां वृहस्पतितुल्यानां “गी:पतिर्धिषणो गुरुः" इत्यमरः / धिषणाः बुद्धयः / 'बुद्धिर्मनीषा धिषणे त्यमरः / ते तव स्वरूपं तत्त्वम् ,अवधारयितुम् निश्चेतुं न, विस्फुरन्ति प्रभवन्ति, बुद्धयगम्यत्वात्तवेति भावः / नन यदबद्धन विषयः सोऽस्त्येव नेति चेत्तत्राह-चोवः तत्त्वज्ञानमेव वारि जलं तेन धुतं प्रक्षालितं कर्मैव मलमावरकत्वाद्येषां तानि, आवरणीयकर्मयोपशमविशिष्टानि, नराणाम् आन्तराणि करणान्युपयोगेन्द्रियाणि विस्फुरन्ति ते स्वरूपमवधारयितुं, यावद्धि न त्वत्स्वरूपज्ञानप्रतिबन्धककर्मक्षयोपशमस्तावन्न तव तत्त्वानुभवः / एवं च धिषणायाः तादृशत्वाभावे कुतस्तद्गोचरता तवेति भावः / / 8 / / મનુષ્યની અંતર ઇંદ્રિય પણ તમારું સ્વરૂપ નિશ્ચય કરવાને સમર્થ નથી. કેવળ સમ્યજ્ઞાનરૂપી જળથી જેના કર્મ રૂપી મલ ધોઈ ગયા છે તેવા જ્ઞાનીઓની બુદ્ધિ જ તમારા સ્વરૂપનો નિશ્ચય કરી श छे. // 8 // कामधेनुमपि कामितलब्ध्यै, कल्पवल्लिमपि वेल्लितपापः / प्रार्थये न भवतीमपहाय, स्वामिनि ! प्रगतदुःखनिहन्त्रि ! / / 87 / / स्वामिनि ! प्रणताना दुःखस्य निहन्त्रि ! भवती त्वामपहाय त्यक्त्वा वेल्लितः आलुठितः पापो येन स पापात्मा, अमिति शेषः / कामितस्येष्स्य लम्ध्ये प्राप्तये, कामधेनुमपि कल्पवल्लों कल्पवृक्षम् , सर्वकामप्रदत्वेन प्रसिद्धमपि, न प्रार्थये, त्वाशप्रभावशालित्वाभावात्तेषामिति भावः // 87 // નમન કરનારના દુઃખનો નાશ કરનારી છેસ્વામિની પાપથી પીડાયેલે એ હું આપને છોડીને પિતાનું ઇષ્ટ મેળવવા માટે કામધેનુ કે કલ્પવૃક્ષની પણ પ્રાર્થના કરતો નથી. 87 आश्रये विकचचम्पकचञ्च-त्पुप्पदामकमनीयशरीरम् / आविधूननविधौ विबुधानां, वन्दनीयचरणां मनसा त्वाम् // 88 / / विकचानां विकसितानां चम्पकस्य तदाख्यवृक्षविशेषस्य चञ्चतां शोभमानानां पुष्याणां दाम्ना सजा कमनीयं मनोहरं शरीरं यस्यास्ताम्, तथा विबुधानां देवानां बुधानाश्च वन्दनीयौ चरणो यस्यास्ताम् , त्वाम् आधेः मनोव्यथायाः “पुंस्याधिर्मानसी व्यथा” इत्यमरः / विधूननस्य विनाशस्य विधौ विधिनिमित्तम् , मनसा आश्रये श्रयामि // 8 // હું પોતાના દુઃખનાશ કરવા સારૂ વિકસિત એવા ચંપાના શોભતા ની માળા જેવું મનહર શરીર વાળી દેવના પણ વંદનીય ચરણ વાળી એવું આપનું મનથી આશ્રવણું કરું છું. 88 वेल्लितं गमितं नाशितं पाणं येन स तथा वेल्लिता निकम्भितानि पापानि यस्य वा स तादृशोऽहं तव दर्शनेनेति भेषः /
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy