________________ [ 266 ] स्वप्नेऽन्यदोत्सङ्गगतं नृपस्य, कान्ता लतायुग्ममवेक्षताद्या / पद्माश्रयां पद्मलतां द्वितीया, तथा व्यलोकिष्ट निजाङ्गभाजम् // 216 // व्याख्या--अन्यदा-एकदा / नृपस्य, आद्या-प्रथमा / कान्ता-पत्नी कनकधीः / स्वप्ने, उत्सम गतम्-उत्सङ्गे कोड़े ‘क्रोड उत्सङ्गः' इति हैमः, गतं प्राप्तं / लतायुग्मं-वल्ली द्वितयम् / अक्षत-ददर्श / तथा, द्वितीया-कान्ता हेममालिनी। पद्माश्रयां-पद्ममाश्रयः यस्यास्तां लक्ष्मीम् / पद्मलताश्च-“पद्माया लक्ष्म्या आश्रयो यस्यां तो यद्वा पद्मानामाश्रयः आश्रयभूतां / " निजाङ्गमाजम्-निजशरीरसम्बद्धाम् उत्सङ्गगतामित्यर्थः / व्यलोकिष्ट // 216 // स्वप्नानुसारेण च बभ्रतुस्ते, गर्भानदभ्रद्युतिपेशलायो / आद्या प्रसूते स्म सुते क्रमेण, सुवर्णपद्मादिलतोत्तराख्ये // 217 // व्याख्या-अदभ्रद्युतिपेशलाङ्गयौ-अदभ्रया अतिमात्रया द्युत्या कान्त्या पेशलानि सुन्दराणि अङ्गानि ययोस्ते तादृश्यौ। ते-द्वे महिष्यौ / च स्वप्नानुसारेण, गर्भान् , बभ्रतुः-दधतुः / आद्या-कनकश्रीः / क्रमेण, सुवर्णपनादिलतोत्तराख्ये-सुवर्णं सुवर्णशब्दः पद्मं पद्मशब्दश्च आदी लता लताशब्दो चोत्तरी ययोराख्ययोः ते आख्ये नामनी ययोस्ते / सुवर्णलता पद्मलता-नामनी / सुते-पुत्र्यो / प्रसूते स्मअसूत // 217 // अथ हेममालिन्यास्तनयोत्पत्तिमाहसा हेममालिन्यपि हेमगौरी, पद्माभिधानां तनयामसूत / ताः पाल्यमाना अपि लाल्यमाना-स्तिस्रः पितृभ्यामपि वृद्धिमापुः // 218 // __व्याख्या हेमगौरी-हेम इव गौरी गौरवर्णवती / सा-द्वितीया / हेममालिनी-तन्नाम्नी राशी / अपि, पद्माभिधानां-पद्मानाम्नीं। तनयां-पुत्रीम् / अस्त, पितम्यां-मातापितृभ्यां / लान्यमाना:-लिसमानाः / पान्यमानाः, अपि-पोष्यमाणाश्च / ताः, तिस्रः, अषि, सुवर्णलतापमलतापमाख्या वृद्धि आपुः // 18 // अथ तासां साध्वीप्रीतिमाह-बधीतेति