________________ [265 ] बलवान् प्रतिपक्षोऽयमित्याशक्य / वाधों-समुद्रे / झम्पां-झम्पापातं / ददौ-चकार, तद्भयेन एव वाडवाग्निः समुद्रे निमग्नस्तिष्ठति इति भावः अत्र वाडवाग्नेः स्वाभाविकसमुद्रावस्थानस्य तेन पराजयस्यासम्बन्धेऽपि तत्सम्बन्धोक्तेः / असम्बन्धे सम्बन्धरूपातिशयोक्तिर लङ्कारः / / 212 // . तथा न वक्षः प्रतिपक्षभेत्त-य॑भूषि वक्षः कनकश्रियाऽस्य / सौभाग्यलक्ष्मीरसराजधान्या, राझ्या यथा तत्कनकश्रियैव // 213 // व्याख्या–प्रतिपक्षभेत्तुः-प्रतिपक्षस्य शत्रोः भेत्तुः उन्मूलयितुः / अस्य-रत्नध्वजस्य नृपस्य / वक्षः- . उरःस्थलम् / कनकश्रिया-कनकस्य सुवर्णस्य श्रिया शोभया / तथा-तेन प्रकारेण / न व्यभूषि-भूष्यते स्म। यथा सौभाग्यलक्ष्मीरसराजधान्या-सौभाग्यलक्ष्म्याः रसस्य शृङ्गारादेः राजधान्या खनिरूपया तत्पल्या। कनकश्रिया-तन्नाम्न्या राश्या / एव तत्-वक्षः, व्यभूषीत्यनुषज्यते, कनककान्तेरप्यधिका तत्सत्नी कनकश्रीकान्तिरिति भावः // 213 / / दया यथा मानस एव राज्ञ-स्तस्य न्यवात्सीनयवत्सलस्य / तथैव हैमच्छविहेममालि - न्याख्या द्वितीया महिषी द्वितीया // 214 // व्याख्या - नयवत्सलस्य-न्यायप्रियस्य / तस्य-रत्नध्वजस्य / राज्ञः, मानसे-हृदि / यथैव, दया, न्यवात्सीत्-निवसति स्म / तथैव, अद्वितीया-असाधारणा / हेमच्छविहेममालिन्याख्या-हेमच्छविरिव छविर्यस्याः सा चासौ हेममालिन्याख्या च सा, कनककान्तिः हेममालिनीनाम्नी / द्वितीया, महिषीराज्ञी, मानसे न्यवासीदित्यनुषन्यते, साऽत्यन्तं प्रियेति भावः // 214 // ताम्यामुभाभ्यामधिकं प्रियाभ्यां, विभ्राजमानः स कलाधिनाथः / प्रकाशयामासतरां सदाशा, ज्योत्स्नाकलाभ्यामिव शीतधामा // 215 // व्याख्या-तभ्याम्, उमाभ्यां, प्रियाम्यां-पत्नीभ्याम् / अधिकं-नितरां / विभ्राजमान:-शोभमानः / स. कलाधिनाथः-कलानां विद्यानाम् अधिनाथः 'विज्ञः, अथ च चक्रवर्तित्वात्सकलस्याखिलस्य विश्वस्य अधिनाथः अधीशः सः राजा / ज्योत्स्नाकलाभ्याम्-ज्योत्स्ना चन्द्रिका, कला षोडशभागात्मिकाकान्तिस्ताभ्यां, शीतं धाम तेजः यस्य स शीतधामा-चन्द्रः / इव, सदाशा:-सतां सज्जनानामाशाः अभिलाषाः / अथ च सर्वाः दिशः / प्रकाशयामासतरा-पूरयामासतरामालोकयामासतराञ्च // 215 / /