________________ [ 222 ] विष्णुना लक्षणया विष्णुभक्तजनेन च. युक्तम् / पुण्यसारम्-पुण्यस्य सारं स्थिरांशमिव लक्ष्यमाणम्, पुण्यं पवित्रमत एव सारमुत्तमं / कासारं-तडागम् / अवलोकिष्ट-ददर्श / / 77-78-89 अथ तस्य मार्गान्वेषणप्रयासमाह-प्रामीणेत्यादिग्रामीणपोरैः क्रयविक्रयाभ्यां, चलद्धिराकीर्णमऽभीप्सिताभ्याम् / ग्रामस्य कस्याप्यथवा पुरस्य, पन्थानमन्वेषयितु प्रतीतम् // 8 // कृत्वा तडागे सवनं श्रमातः, स्वच्छानि शीतानि जलानि पीत्वा। आलम्ब्य दोभ्यां च वटस्य पादांस्तस्योपरिष्टात् स समारुरोह // 81 // व्याख्य - ग्रामीणपोरै:-प्रामीणैः प्रामेयकैः "प्रामेयके तु प्रामीण प्राम्यौ” इति हैमः / पौरैः पुरवासिभिश्च / अभीप्सिताभ्यां-स्वेष्टाभ्याम् / क्रयविक्रयाभ्यां-स्वाभीष्टक्रयविक्रयार्थमित्यर्थः / चलद्भिः-गच्छद्भिः / आकीर्ण-संकीर्ण / कस्यापि ग्रामस्य, अथवा पुरस्य, प्रतीतम्-प्रसिद्धम् / पन्यानम्-मार्गम् / अन्वेपयितुम्-यस्मिन् मार्गे बहवो जनाः स्वस्वकार्यार्थ चलन्ति तं प्रतीतम् मार्गमन्वेषयितुमित्यर्थः / श्रमेण भ्रमणखेदेन सौकुमार्याद आतः पीडितः श्रमातः, सः-मंगलकुम्भः / तडागे-हृदे / सवनम्-स्नानं / कृत्वा-'स्नानं सवनमाप्लवः, इति हैमः / स्वच्छानि. शीतानि-शीतलानि / जलानि च, पीत्वा; वटस्य-तडागतटस्थस्य वटस्य ।पादान्-शाखाः / आलम्ब्य-आश्रित्य / तस्य-वटस्य / उपरिष्टात्-उपरि / समारुरोह / यथा तादृशमार्गमवलोकयेदिति भावः / / 80-81 // अथच्छलेन सूर्यास्तं वर्णयति-पूरास्तमिति - सूरस्तमालोक्य तदुग्रदुःखं, करेष्वनेकेष्वपि सत्सु हत्तुम् / अपारयन्न्यस्तमहीध्रचूला-मारुह्य वेगाजलधौ ममज // 2 // व्याख्या-तं-मंगलकुम्भम् / आलोक्य-दृष्ट्वा / तदुप्रदुःख-तस्य मंगलकुम्भस्य उप दुःखम् / अनेकेषु-सहस्रसंख्येषु / करेषु-किरणेषु, हस्तेषु च / सत्सु-विद्यमानेष्वपि, हत्तु-दूरीकर्तुम् / अपारयन्अशक्नुवानः / सूरः-सूर्यः / अस्तमहीध्रचूलाम्-अस्तमहीध्रस्य अस्ताचलाख्यपर्वतस्य 'महीधे शिखरि माभृदऽहार्यधरपर्वता' इत्यमरः / चूलां शिखरम् / आरुह्य, वेगात, जलधौ-समुद्रे / ममज-अत्रुडद /