________________ ॐ श्रीबुद्धिसागरसूरि-प्रोक्तं // पञ्चग्रन्थी व्याकरणम् // // स्वोपज्ञवृत्तिसमेतम् // [ // अथ प्रथमोऽध्यायः // ] ' [ // अथ प्रथमाध्याये प्रथमः पादः // ] - // नमः सर्वज्ञाय // . सिद्धं जिनं सर्वविदं निरञ्जनं सर्वीयमीशं कमलालयं गुरुम् / नत्वा प्रबद्ध्ये लघुपूर्णपद्यवाक् शब्दस्य लक्ष्माऽबुधबुद्धिवृद्धये // 1 / 1 / 1 // अवयवार्थोऽस्य न्यासादवसेयः / अविशेषेण विशेषप्रयोजनमुच्यते सर्वविघ्नोपशान्त्यर्थं शब्दार्थप्रतिपत्तये / श्रोतृजनप्रवृत्त्यर्थं सश्लोकं प्रोक्तवानहम् // 11 // 2 // प्रत्याहारान् मुक्त्वा पद्यप्रतिज्ञेति सहेतुकमाह / अचालितेत्यादि श्लोकः / ... [अचालिताः प्रतीतार्थाः प्रत्याहाराश्चिरन्तनाः / कृताः पद्या न चामीषामसन्देहार्थं तथा च ते // 11 // 3 // ] न चालिताः, न केनचिदन्यथाकृता इत्यचालिताः, ते च ते / [प्रतीतार्थाः / ] प्रतीत: संज्ञाद्यनपेक्षत्वाद् व्यक्तो ज्ञातो, वाचा वाऽनुक्तवर्णरूपोऽर्थो येषां ते तथा / ते च के ते? प्रत्याहियन्ते संगृह्यन्ते वर्णा यैः साद्यक्षरैरनुबन्धैस्ते प्रत्याहाराः, न तु संज्ञाः / ते च चिरन्तना न त्वाधुनिकाः, इति हेतोरिह पद्या न कृता अमीषामर्थानां प्रतिपत्त्यर्थमित्यर्थः / उपर्युपरि पाते अच् अज् वा प्रत्याहार इत्यादिसन्देहनिरासार्थं च / तथेति समुच्चये / ते चामी / [अइउण् / ऋलुक् / एओङ् / ऐऔच् / हयवरट्लण् / जमङणनम् / झभघढधष् / जबगडदश् / खफछठथचटतव् / कपम् / शषसअंअः क पर् / हल् // ] . अइउण् इत्यादिक्रमेण वर्णोपदेशः प्रत्याहारार्थः / ते च शास्त्रलाघवाय / अ तु णा अण् इत्येकः / ऋलुक् / का / अक् / इक् / उक् / इति त्रयः / एओङ् / ङा