________________ 330 पञ्चग्रन्थी व्याकरणम् आहथुः / ब्रवीति // (110) अ औणाः / [ 4 / 2 / 11 / 12 / ] आकारात् परे णाः ण ण अ एते, औ स्युः / स ददौ / अहं दधौ च / अः किम् ? पपाच / पपच // (111) ए ल्टित् तङाम् / [4 / 2 / 11 / 13 / ] टिल्लादेशतङामन्त ए स्यात् / पचते / पचामहे / टित् किम् ? अपचत / तङां किम् ? पचति // (112) गाम् / [ 4 / 2 / 11 / 14 / ] टित्तङामाम् गिद् ए स्यादसन्ध्यर्थे / पचेते इति / पचेथे / टित् किम् ? आपचे त्वम् // (113) स उ थास् / [4 / 2 / 11 / 15 / ] टित्तङां थास् से स्यात् / उ निपातः / पचामः // (114) स्व ए वाम् / [4 / 2 / 11 / 16 / ] स्वः सकारवकारात् पर ए क्रमेण व अम् स्यात् / लोड / लोटः साध्वसध्वम् स्तः, इत्यर्थः / अधीष्व / अधीध्वम् // 11 // लोडामेऽनिङ आन्युमी हिसि जहि: शाध्येधि टाप् म्वेश्च तस्थस्तान्तंथतडिद् मिबञ्च वम सीत् ति स्तौत् सि वा द्रुश्च झिः / जुस् द्विष्योऽज्झिस्वदभूसिचो लिङिड्झरन् स्याप् तिन् तङ: सी च सीप याशीः ट्यास्त्थिसु तात्त वाप्तुहिरिणः सीप्लुङिल धोढ्वेणिटः // 4 / 2 / 12 // शादूलविक्रीडितम् // ( 115 ) लोडामे / [ 4 / 2 / 12 / 1 / ] तदादेशोऽपि सः / लोट् ए आं स्यात् / पचताम् / पचेताम् / पचन्ताम् // __ (116) अनिङः / [4 / 2 / 12 / 2 / ] लोङिड् प्रत्याहारस्यार्थाद् एरनागमः स्यात् / करवै / करवावहै / करवामहै // (117) आन्युमी / [ 4 / 2 / 12 / 3 / ] लोट् मिप् इ एतौ आनि ओ स्तः / करवाणि / करात् / कुर्वन्तु // (118) हि सि / [ 4 / 2 / 12 / 4 / ] लोट् सिप् डिद हि स्यात् / रुदिहि / आप्नुहि / / (119) जहिः / [ 4 / 2 / 12 / 5 / ] हन्तिः सिवन्तो निपात्यते / हस्तु जः / [जघन्थ / जघनिथ / जेनीयते / जंघन्यते // ] (120) शाध्येधि / [ 4 / 2 / 12 / 6 / ] स्तः शास्त्यस्तेः // (121) टापम्वेश्च / [4 / 2 / 12 / 7 / ] लोट् वमइटा टाप् स्यात् / करवाव / करवाम / सुवै / सुवावहै / सुवामहै / टित्पिदागमा अरङर्थम् / / (122) तस्थस्तान्तन्थत / [ 4 / 2 / 12 / 8 / ] लोट् तस् थम् थ एते ताम् तम् त स्युः / पचताम् / पचतम् / पचत //