________________ चतुर्थोऽध्यायः प्रथमः पादः 295 वर्तते / प्रतिष्ठन्त्यत्र प्रस्थः / एवं प्रश्नः / प्रपाकः गणान्तार्थः // (58) ट्युः / [4 / 15 / 9 / ] तथा धातोः / पानम् / भोजनम् / इध्मव्रश्चनः / पलाशशातनः / करणः / सम्प्रदानम् / प्रपतनः / अपाद् आप्तम् / गोदोहनी / सक्तुधानी / अधिकरणम् / घदाप्यस्पर्शात् करृङ्गसुखमित्येको नित्यसमासार्थम् / पयःपानं ओदनभोजनं सुखम् / आप्यं किम् ? बालिकाया उत्थानं सुखम् / स्पर्शः किम् ? अग्निकुण्डस्योपासनं सुखम् / कर्तृ किम् ? गुरोः स्नापनं सुखम् / गुरुर्हि कर्म / अङ्ग किम् ? पुत्रस्य परिष्वजनं सुखम् / मानसी हि प्रीतिः / सुखं किम् ? कण्ठकमर्दनं दुःखम् / पूर्वेण ट्युः सिद्धः / सर्वत्रासमासः प्रत्युदाहियते / स च तत्रैव द्रष्टव्यः // (59) ष्ठिक्सिवः / [ 4 / 1 / 5 / 10 / ] दीर्घश्च बहुलम् / ष्ठीवनम् / [ष्ठेवनम् / सीवनम् / ] सेवनम् // (60) कर्तरि कुश्च दीर्घः / [4 / 15 / 11 / ] तथा / कारणम् / कर्तरि किम् ? करणम् // 5 // खुकष्णुवः खित्सुभगाढ्यनग्नस्थूलप्रियान्धात् पलितात् कुरच्वेः / . ख्युडत्र भूते करणाद् यजो णिनिन् विक्रियो!पि हनेः स निन्द्ये / [ 4 / 1 / 6 / 1 / ] वृत्तम् // (61) खुकष्णुवः खित्सुभगाढ्यनग्नस्थूलप्रियान्धात् पलितात् / [4 / 1 / 6 / 1 / ] सुभगाढ्यादिभुवोऽच्चेः च्च्यार्थवृत्ते स्त्र उकण् च खित् कर्तरि स्यात् / असुभगः सुभगो भवति, सुभगंभविष्णुः / सुभगंभावुकः / एवं [आढ्यंभविष्णुः | आढ्यंभावुकः / नग्नंभविष्णुः / नग्नंभावुकः / स्थूलभविष्णुः / स्थूलंभावुकः / प्रियंभविष्णुः / प्रियंभावुकः / अन्धंभविष्णुः / अन्धंभावुकः / पलितंभविष्णुः / पलितंभावुकः / ] अच्चेः किम् ? सुभगीभवति / सुभगो भवति / खिन्ममर्थः // (62) कुरच्वेः ख्युडत्र (भूते) / [4 / 16 / 2 / ] तथा / अत्रेति करणे / असुभगं सुभगं कुर्वन्त्यनेनानया वा, सुभगंकरणम् / डी वा / एवम् [आढ्यंकरणम् / नग्नकरणम् / स्थूलंकरणम् / प्रियंकरणम् / अन्धंकरणम् / पलितंकरणम् / टिड्ड्यर्थः / अच्वे: किम् ? सुभगीकुर्वन्त्यनेन / व्यर्थे किम् ? आढ्यं कुर्वन्ति तैलेन / अभ्यञ्जनार्थविवक्षातो मा [इत्यर्थः] / (63) करणाद् यजो णिन् / [ 4 / 1 / 6 / 3 / ] स्यात् / अग्निष्टोमेनेष्टवान्, अग्निष्टोमयाजी // ___(64) इन् विक्रियोर्नोऽपि / [4 / 1 / 6 / 4 / ] आप्याद् विक्रियोऽपि निन्द्ये कर्तरि इन् स्यात् / सोमविक्रयी / तिलविक्रयी विप्रः / निन्द्ये किम् ? तैलविक्रायः // (65) हनेः स निन्द्ये / [4 / 1 / 6 / 5 / ] स तथा णिन् / पितृव्यघाती / निन्द्ये किम् ? चौरं हतवान् // 6 // कुमारशीर्षाट्टसमोऽण् चरोर्वाङ् दारोर्डपात् क्लेशतमोभ्य आशीः / अपुंसि जायापतितोऽपि चिह्ने शक्तौ च टक् हस्तिकपाटवाकोः // 4 / 17 //