________________ 261 तृतीयोऽध्यायः चतुर्थः पादः ग्रन्थे किम् ? वर्तितम् / एवं, पूरितम् / पूर्णम् / स्पाशितम् / [स्पष्टम् / ] च्छादितः / छन्त्रः / दासितः / [दस्तः / ] क्तान्तनिपातनात् क्तवतोरिट् स्यात् / वृद् गणसमाप्तौ // 1 // (122 ) ग्रह ईत् / [3 / 4 / 11 / 2 / ] ल्यशस्तथा / ग्रहीष्यति / ग्रहीता / ग्रह इति किम् ? जरीगृहिष्यति / [जरीगृहीष्यति // ] (123) न वाऽलिडि तु व / [3 / 4 / 11 / 3 / ] इड् वाऽतः ल्यशः स्तोऽलिडि / वरीष्यति / [वरिष्यति / ] तरीष्यति / [तरिष्यति / ] अलिडि किम् ? प्रावरिषीष्ट / [तरिषीष्ट] // (124) पित्तिङ्वलो ब्रूयङः / [3 / 4 / 11 / 4 / ] ब्रूयङो विहितस्य वलादेः पित्तिङ ईड् वा व्यवस्थितनवात्वात् / ब्रुवो नित्यम् / ब्रवीति / ब्रवीषि / ब्रवीमि / वावदीति / [वावदीषि / वावदीमि / ] रोरवीति / वावत्ति / [वावर्षि / वावति / ] चर्कमि / पिति किम् ? ब्रूहि / ब्रूतः वावत्तः / वलः किम् ? ब्रुवाणि / यङ: पिदभावाद् यङ्लुगिष्यते // (125) स्यस्सो लः / [3 / 4 / 11 / 5 / ] सिचोऽस्तेश्च सः सकारात् परस्याल्मात्रस्य पित्तिद्धल ईड् नित्यं स्यात् / अकार्षीत् / अकार्षीः / आसीत् / [आसीः / ] अलः किम् ? अकार्टाम् / अस्ति / स किम् ? अदात् / अभूत् // (126) अडदः / [ 3 / 4 / 11 / 6 / ] तथा / आदत् / [आदः] / अलः किम् ? अत्ति / : अत्सि // ___ (127 ) ईसोऽट् / [ 3 / 4 / 11 / 7 / ] रुस्प्रत्याहाराद् रुदादेस्तथाऽड् ईड् वा / अरोदीत् / [अरोदीः / अस्वपीत् / अस्वपीः / अश्वसीत् / अश्वसीः / प्राणीत् / प्राणी: / अजक्षीत् / अजक्षीः / अरोदत् / [अरोदः / अस्वपत् / अस्वपः / अश्वसत् / अश्वसः / प्राणत् / प्राणः / अजक्षत् / अजक्षः / ] अतः किम् ? रोदिति / .. (128) वलि / [ 3 / 4 / 11 / 8 / ] पिन्निवृत्त्यर्थं वलीति / रुद्भ्यः तिङ्वल इदुत्तरः स्यात् / / रोदिति / जंक्षितः / वलि किम् ? रुदन्ति // (129) जनीशीङः स्ध्व इट् / [3 / 4 / 11 / 9 / ] जन् ईश् ईड् एभ्यः, स्वेति डिसादौ ध्वशब्दे च इट् स्यात् / व्यतिजज्ञिषे / व्यतिजज्ञिष्व / व्यतिजज्ञिध्वे / ईशिषे / [ईशिष्व / ईशिध्वे / ] ईडिषे / [ईडिष्व / ईडिध्वे / ] ईडिध्वम् / ध्वे ज्ञति निर्देशाद् अकृतैत्वस्य न स्यात् / ऐढ्वम् // (130) थे लिटो वात्वदृश्शृजवोऽनिटस्तृचि सदा / [3 / 4 / 11 / 10] अकारवद् दृशि सृजि अजन्तात् तृचि नित्यानिटः परस्य लिड्वल इड् वा स्यात् / पक्व / पपक्थ / पेचिथ / शशक्थ / इयजिथ / इयष्ट / अत्वत् किम् ? कृष् चकर्षिथ / तत् किम् ? रराधिथ / अनिट् किम् ? फेणिथ / तृचि किम् ? शान्तः / शमिथ / सदा किम् ? रद्धा / रधिता / रेधिषः / थलि किम् 2 पेचिव / पेचिम / ददर्शिथ / ददृष्ठ / [ससजिथ / ] सस्रष्ठ / अचः / याता / ययाथ / ययिथ / चिचेथ / [चिचयिथ / ] जुहोथ / [जुहविथ / ] अनिट् किम् ? लविता / लुलविथ / तृचः किम् ? युतः / युयविथ / सदा किम् ? सोता / सविता / सुसविथ / थलः किम् ? ययिव /