________________ 260 पञ्चग्रन्थी व्याकरणम् यणिक् / इङ्गिर / व्रश्चित्वा / असोः भावे क्तस्येट / आसितं ना / भावे किम् ? अस्तः / न्यस्तम् / विसन्नेरर्दः / क्तयोर्नेट / व्यर्णः / [समर्णः / न्यर्णः / ] न्यर्णवान् / अभेस्तथाऽविप्रकृष्टेऽर्थे / अभ्यर्णा शरत् / अविदूर्ये किम् ? अभ्यर्दितो ना शीतेन / पीडितः [इत्यर्थः] / धृषशसः प्रगल्भे / अविनीतत्वे क्तयोर्नेट / धृष्टः / [शस्तः / ] विशस्तवान् / प्रगल्भे किम् ? धर्षितः / [विशसितः / ] अविशब्देऽर्थे घृषस्तथा / अवघुष्टा रज्जुः / अविशब्दनेऽप्रतिज्ञाने किम् ? अवघुषितं वाक्यमाह / चुरादौ णिरद् वा ज्ञापितोऽ तो 'महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः' [इति स्वाभिप्रायं . शब्देनाविष्कृतवन्त इत्यर्थोऽयं प्रयोग उपपन्नो भवति ] | कषस्तथा कृच्छ्रे दुर्गे च / गहनेऽर्थे / कष्टोऽग्निः / कष्टाः पर्वताः / कषितमन्यत् // 8 // आत ईत् / इदनुबन्धो यस्य क्तादेस्तथा / जिमिदा - मिन्नः / [मिन्नवान् / ओलस्जीलग्नः / [लग्नवान् / ] डीश्विभ्यां पत आकारवर्जितान्न वेटश्च तथा / उड्डीनः / [उड्डीनवान् / शूनः / [शूनवान् / ] वेटः / गुह् - गूढः / [गूढवान् / ] वृद्धः [वृद्धवान् / ] अपता किम् ? पतितः / [पतितवान् / ] दरिद्रितः / [दरिद्रितवान् // ] प्राद् वेः श्वसः / तथा / प्रश्वस्तः / प्राद् वेः किम् ? श्वसितम् / उच्छ्वसितवान् / क्तयोर्वेट् / जपादेः / जप्तः / [जप्तवान् / ] जपितः / [जपितवान् / ] वान्तः / [वमितः / दान्तः / दमितः / ] एवं [शान्तः शमितः / तान्तः / तमितः / ] अम्-अभ्यान्तः / [रुष्टः / रुषितः / संघुष्टः संघुषितः / ] त्वर- तूर्णः / त्वरितः / ज्ञप्तः / ज्ञपितः / ज्ञपितवान् / शकः क्तस्य वेट / अर्माप्येऽर्थे / शक्तः, शकितो वा कट: कर्तुं ना / आप्ये किम् ? शकितं तेन / भावे आदिकर्मणि चार्थे क्तयोर्वेट् / आदितः / प्रमिन्नम् [अनेन / ] प्रमेदितम् [अनेन / ] प्रमिन्नः / प्रमेदितः / आदितः किम् ? प्रकृतः कटं ना / शप् चोवलोऽकिता शप् प्रकृतेः उत्पूर्वहलन्ताद् भावादिकर्मणोविहितयोः क्तयोरिटं अकिच्च स्यात् / द्योतितं द्युतितं ना / प्रद्योतितो, [प्रद्युतितो] ना / उद्धलः किम् ? विदितं ना / इट् किम् ? प्ररूढं . ना / भावादिकर्मणोः किम् ? रुचितः पटः / शप् किम् ? गुधितं ना / निकुचितमिति / वाच्यम् / स्विदादेः / तच्चेड् वा / स चाकित् / प्रस्वेदितं ना / प्रस्वेदितो ना / [शयितम् / मेदितम् / पवितम् / वषितम् / क्ष्वेदितम् / ] इट् किम् ? प्रस्विन्नः / शीनः / मिन्नः / पूतः / वृष्टः / क्ष्विन्नः / सहने क्षान्त्यर्थात्, मृषः क्तयोरिडकित् / मर्षितं ना / मर्षितः / [मर्षितवान् / ] सहने किम् ? अपमृषितं वाक्यमाह // 9 // षट्पदी // मन्थमनस्तमश्चेदर्थः क्रमेण क्षुब्धं स्वान्तं ध्वान्तमिति निपात्यन्ते / द्रवद्रव्यसंयुक्ताः सक्तवः मन्थ इत्युच्यते / तच्चलने क्षुभि क्तश्च / क्षुब्धः सञ्चलितो मन्थ उच्यते / यद्वाऽऽप्ये घणमन्तस्तदर्थे / क्षुब्धः समुद्रो विलोडनेन / विकृत इत्यर्थः / क्षुब्धा नदी / मन्थ किम् ? क्षुभितो ना / सामानाधिकरण्य किम् ? क्षुभितं मन्थेन / एवं स्वान्तं मनः / ध्वान्तं तमः / स्वनितोऽन्यः / ध्वनितं तमसा / भृशे प्रभौ बाढपरिवृढौ स्तः / बाहितं परिबृंहितमन्यत् / फाण्टम् अनायासनिर्यातं चेत् / सद्यो भिषगुद्धृतौषधं किञ्चिद् द्रव्यमुच्यते / फाणितमन्यत् / विरिब्धि स्वरेऽर्थे / विरेभितमन्यत् // 10 // म्लिष्टोऽस्पष्टेऽर्थे / म्लेच्छितमन्यत् / बलिनि स्थूले चार्थे दृढः / बृंहितमन्यत् / वा दान्तशान्तयोः ण्यन्ताः / दान्तः / दमितः / शान्तः / [शमितः / ] वृत्तं पारायणम् / पारायणे वा /