________________ तृतीयोऽध्यायः चतुर्थः पादः 247 साह्वान् / मिहेढत्वं च / मीढ्वान् / नञोऽश्नातेः / अनाश्वन् / अनाश्वांसौ / विचः / अनूचानः / क्लिदेः कद्वित्वम् / चिक्लिदम् / क्नसो, विचक्नसम् / चरिचलिपदिवदीनां पूर्वः स्यात् / हलोऽलुक् च / चराचर: चलाचलः / पतापतः / वदावदः / हन्तेर्घत्वं च / घनाघनः / पाटेर्णिलुक्, उक् च / पाटूपटः / एते वा निपात्यन्ते / अन्येऽपि कृतद्वित्वाऽत्र द्रष्टव्याः // 4 // (28) न न्ो वलि / [3 / 4 / 5 / 1 / ] र न द ब एते च वल्युपश्लेषे न द्विरुच्यन्ते / अचिचिषति / उन्दिदिषति / अड्डिडिषति / उब्जिजिषति / आद्याचः किम् ? दिद्रासति // (29) अर्वा ये / [3 / 4 / 5 / 2 / ] अरुरेफवर्जाद्वः ये वा द्विरुच्यन्ते वलिनिषेधाद्यनित्यं प्राप्ते वा / अन्यम् / आड्यम् / आढ्यम् / तदाख्यत् / निन्यत् / न्यियत् / आदिच्चत् / आदिद्यत् / आदियत् / आव्यियत् / अरु किम् ? अरार्यते / आर्यमाख्यत् / आरिर्यत / वामनस्य वलीति प्रतिषेधाद् ये द्विरुच्यन्त एव / यथाऽऽरार्यते / जसादित्योऽप्याह-ये प्रतिषेधो वक्तव्यो नञः / दुर्गोऽपि - ननु ये ये द्विरुच्यन्त एव / चन्द्रस्य तु मतेन न द्वे हलीति प्रतिषेधाद् अयि इत्यत्रापीत्यस्य रेफेण सम्बन्धात् / यद् वा नैव द्विरुच्यन्ते / न च योगविभागोऽपि पार्थक्यस्य वैयर्थ्यस्य प्रसङ्गात् / उभयमतप्रामाण्यादिदमुक्तम् / य किम् ? उब्जिजिषति / / (30) स्सन्यधिज्ञप्यापोऽगीर् / [3 / 4 / 5 / 3 / ] सादौ सनि परे ऋध् ज्ञपि आपाम् अक् इ ई यथास्थानं स्यान्न च द्विः / ईर्सति / नारतो यणनिशामनेषु / ज्ञपि / ज्ञीप्सति / ईप्सति / : सादौ किम् ? अदिधीषति / जिज्ञपयिषति // (31) धिब्धीब्दम्भु / [3 / 4 / 5 / 4 / ] दम्भः स्सनि धिप् धीप् स्यान्न च द्विः / धिप्सति / [धीप्सति / ] सादौ किम् ? दिदम्भिषति // (32) मुज्मोज्वानाप्यः / [3 / 4 / 5 / 5 / ] अविद्यमानाप्यो मुच् मोच् वा स्यात् स्सनि, न च द्विः / मोक्षति, मुमुक्षति, मोक्षते, [मुमुक्षते,] वत्सः स्वयमेव / अनाप्यः किम् ? मुमुक्षति वत्सं (33) दाधिम् / [3 / 4 / 5 / 6 / ] श्लोकोऽत्र दाजदाणौ चेति दोदेङौ धाञ्धेटौ मीञ्मीऔ शकः / माङ्मेङौ लभ्रभौ चेति पतृपदौ गणः स्मृतः // 1 // एषां सक इस् स्यात् स्सनि, न च द्विः / दित्सति / [दित्सते / दित्सति / दित्सते / ] धित्सति / [धित्सते / ] मित्सति / [मित्सते / मित्सति / मित्सते / ] शिक्षति / [शिक्षते / ] मित्सति [मित्सते / ] लिप्सते / आरिप्सते / पित्सति / प्रपित्सते / सादौ किम ? पिपतिषति // (34) राधेहिँसायां स्यात् / [3 / 4 / 5 / 7 / ] तथा प्रतिरित्सति / प्रतिरित्सा / हिंसायां किम् ? आरिरात्सति मित्रम् // - (35) लिट्यप्सेट्येत् / [3 / 4 / 5 / 8 / ] राधो हिंसाल्लिट्यपिति सेटि चाग्योत् स्यान्न च द्विः / अपरेधतुः / अपरेधिव / अपरधिथ / लिटि किम् ? अपराध्यतः / अप् किम् ? अपरराध /