________________ 236 पञ्चग्रन्थी व्याकरणम् दीप्तो ज्वलः चलन्येवान्ये / चलने चलिः / मल चलने / चलयति / चालयत्यन्यत्र / न नये / मारणतो षद्लुक् / ज्ञा ज्ञपयति / मारयति / तोषयति / दर्शयति चेत्यर्थः / अन्यत्र ज्ञापयत्यर्थम् / विज्ञापयति प्रभुम् / ऊर्जने षद्, बले प्राणने च / षदि षदयति / अन्यत्र षादयति / छदिरन्ये / मदि हर्षदैन्ययोः / लडि जिह्वाविलोडने / स्वन्वनौ ध्वाने शब्दे / स्वन अवतंसन इत्येके / श्रा द स्मृ क्रमेण पाके भये स्मृतौ / अन्यत्र पठिता अत्र मित्त्वार्थम् / श्राति श्रायति वा / अपयति / [दरति / दरयति / दारयति / स्मरति / स्मरयति / स्मारयति / ] पाकादौ किम् ? श्रापयति / दारयति / विस्मारयति / धात्वन्तरमित्येके / दृ दरति / मित् घटादि / मित् तथोदाहृतम् // 51 // __ अन्यत्र पतितोऽत्र मिदर्थो जृषादि / जरयति / तृणातेस्तु जारयति / जननी च जनयति / जनन भाषायामिति / जनी एवेत्येके / क्रशयति / मृगरम हल्लापे सति दीर्घप्राप्तेः / रजयति मृगान् / वस्त्रं तु रञ्जयति / मन्ताः मितः / मरयति / भ्रमयति / ज्वलादि वा मिदप्रतीति, अप्राप्तौ मति / प्रादौ तु यथाप्राप्तम / ज्वलयति / ज्वालयति / हलयति / [हालयति / / नमयंति / [नामयति / / ह्यलयति / [ह्यालयति / ] ग्लपयति / [ग्लापयति / ] वनयति / [वानयति / ] स्थपयति / [स्थापयति / ] वमयति / [वामयति / ] प्रादेनित्यम् / प्रज्वलयति / [प्रज्वालयति / प्रह्वलयति / प्रहालयति / प्रणमयति / प्रणामयति / प्रह्मलयति / प्रह्मालयति / ] प्रग्लापयति / प्रस्थापयति / कत्वनानो रमितो मान्ता अपि / कामयते / आचामयति / आमयति / शमोऽदृक् / अगदर्शने च शमो मित् / शमयति रोगम् / दर्शने तु निशामयति रूपम् / अन्ये त्वाहुर्दर्शने / नञा यागान्तमित् तथापि सोऽर्थः / स्खद्यमितोऽवपरेः / परिवेषो क्रमेण अवपरेरेव / प्रादेः परात् स्खदेः यमेस्तु परिवेषणेऽर्थे मित्त्वम् / अवस्खदयति / [अवस्खादयति / ] आभ्यां किम् ? प्रस्खादयति / स्खदयति / एवं यमयति / आयमयति / परिवेषे किम् ? यामयति / नियामयति / नञा योगादुदाहरणयोगाद् व्यत्ययमाहुरन्ये // 52 // फण गतौ वृत् / फणो मित् गतौ धातुश्च / सामान्येनान्यत्र पठितस्यात्रपाठो धात्वर्थं च / फणति / फणयति / गतौ च मिन्नेच्छन्त्यन्ये / फाणयति / तथा पृत् पूर्वाथमतो गणो गतौ फण पाठ: / वृद्गणो वा समस्तघटादिसमाप्तर्थः / अतङानि पूर्वोक्तम् / राजश्च / राज्रादि टिद् दीप्तौ / ऋदिताम् अव्याः द्वितः / राजते / अरराजत् / भ्राजथुः / तानिनो भ्राजादयो राजृश्चातो राजेस्तिङ्। स्वन् स्यम् उतौ उदितौ / ध्वनोऽत्र / अत्रेति त्रयोऽपि ध्वने शब्देऽर्थे / षमष्टमावुक्तार्थो पित् // 53 // ___ ज्वलः ज्वलने दीप्तौ, [क्वथः] कथे क्वथने निष्पाके / मथे मथने विलोडने / बलः श्वसने प्राणने / क्षरादि चिच् चलने / हल विलेखने / टलट्वलौ प् पित् वैक्लव्ये / हुलादि खिद्गतौ चिन्तोऽत्यार्थाः / हुल हिंसायाम् // 54|| ___ष्वलादि सुगमम् / कुलो बन्धौ बन्धुषु सांस्त्याने च / कुलं कौलति / वमुर्वम् वा ट्विद् उद्गारे / वम् ट्वित्, वोदिद्, उगिरणेऽर्थे / अतङानिनः पूर्वे // 55 // सूक्तः षह सहने / कुश आक्रोशे ! बुधिर् बोधने / इरित् बुध इनि वा / रसुरमुद्वयं वोदिदित्यर्थः रमणे / यमु नियमे उपरमे / रुह रोहणे / कशख् खिद् गतौ / पृच व्यर्थः सुखार्थः / वृत् ज्वलाद्यर्थः / ज्वलादितो ण इत्यर्थः // 56 //