________________ तृतीयोऽध्यायः चतुर्थः पादः 235 कलने / त्रपूषुः विदुदित् त्रपायाम् / शेषं प्रकटम् // 34 // कडीत्यादि प्रकटम् / इषौ शसि साङ् / आङः शसि इषौ आशंसने // 35 // __कुर्दादिश्लोकद्वयं प्रकटम् / किन्तु गल्भस्तु प्रगल्भे / वषट् दीप्तौ / घूर्ण घुण च भ्रमणे // 36-37|| दान इत्यादि सुगमम् / रभस्तु आरम्भे राभस्ये / धुक्षादि क्लेशने // 38 // प्लेवादि सेचने / वृषच् चित् / वेहादि अमुष्येत्यन्त्यस्य यतीमतोरर्थे, प्रयत्ने इत्यर्थे / लबितृङ अंसने / तृकुच्छन्दोर्थम् / सर्वत्रेदितः // 39 / / आयास इत्यादि श्लोकद्वयं सुगमम् / जभीजृभजृम्भयः जसुक्ताः जृम्भणे // 40-41 // युत्रादि त्वन्तः. भासे / वेति दितौ वा पाठः / दीप्तौ / घि यादि ग्रहणे पण पन स्तुतौ / पण व्यवहारे च // 42 // . कक्यादिपंडिखान्तम् / इख गतौ / अव्यादिभाषान्ताः जसुक्ताः भाषणे शब्दार्थे / किन्तु गुम्वुकुङ ङित एते / गुङ् घुङ् उङ् कुङ् इत्यर्थः / तङानि / पृङितां पाठः हलादेस्तद्वतोऽदितो युङरिह्याद्यर्थः भेदोऽर्थेऽन्यो यथा पैप्यैङ् / / 43-44 / / : श्लोकादि पिण्डने / अत्रादिभलगन्तम् / गित्तु हिंसने / शल्भादि श्लाघलोऽन्तः लित् जसुक्तः श्लाघायाम् / विडुर्जाति सप्तम्यन्तं पुरीषोत्सर्गे हदः // 45 // - धुतादि गतार्थम् / जिर्मिदा जिमेदेत्यर्थः / जीत् आदिच्चेत्यर्थः / त्रिमदादितोऽस्मिन्निति वर्तमाने जीतः / क्त: मिन्नः बिष्विदा स्विन्नः / णभतुभग / गिद्धिंसने / श्रम्भु विश्रम्भे / क्षुभु क्षोभे / ध्वंसादि सूक्तः ध्वसने भ्रशने अंसने // 46 // . वृत्स्यन्दू / वृत् सूक्तः, वर्तने स्यन्दने वर्धने / सृधुघोऽपि घिच्छदोपि कृच्छ्रार्थः / कृपू सामर्थ्ये / गणोच् / गणो ओद् वा औच प्रत्याहारार्थः / धुतादि धुच् / दादि वृच् / घटस्खदप्रथः सूक्त: घटने चेष्टायाम् / स्खदने प्रथने / घटादि मित् / तेन तग्नितः णौ / घटयति / इण्नुमौ / तग्दीर्घा वा / इण् णस्यरेणौ परे तग्वा / अघटि / अघाटि / घटं घटम् / घाटं घाटम् / एवं यावत् फण गतौ / फणयति / गष्टौ किम् ? फाणयति / एवमर्थविशेषे घटादिप्रयोजनम् / क्षजिष् षिद् गतौ / दक्षग् गिद्धिसायाम् / षिवृत्तेर्गतौ च पाठात् / अदाक्षि / दुःखव्यथौ भये / चलने चान्ये / तदा खिदनुवृत्तिः // 47|| क्रदादि / लित् क्रन्दने वैक्लव्ये / क्रप कृपायाम् / जित्वर: त्वरणे, जित् / प्रस: ततौ विस्तारे / म्रद मर्दने / षितश्चापि / पिद्वद्यदि षितोऽर्थे / घटासूदेत्यादि / तङानिनः पूर्वे // 48 // . ज्वरादिच्छन्दो द्वयं सुगमम् / किन्तु ज्वरः ज्वरे रोगे / ज्वरयति / कगेवन् / अनुक्तार्था सुप् नातोऽर्थनियमो, यदाह-'कगेवनु च नोच्यतेऽर्थविशेषे / नट नाट्ये नृतौ / हगे आदि संवरणे / श्रथादि गिद्धिसायाम् / कथच्चेति चित् चान्तं च // 49-50 //