________________ 232 पञ्चग्रन्थी व्याकरणम् वर्णादितं भूति च कूलतो Bऽन्यार्थे च तं लुक् च कृतः स भूद्रप् / कालावधावाङि दथापि चित्रे नक्षत्रयोगे ज्ञि दिशाऽनयान्ये // 133 // गृहणाति वर्णं च कलिं हलिं त्वच् कृतं च तूस्तानि विहन्ति माष्टि / लोमानि भाण्डट् च समाचिनोति अगट निरस्ये परिधावने वा / सम्मार्जने चीवर ङो विमोक्षे पाशाच्च रूपं पुनरीक्षते हि // 134|| वस्त्रं समाच्छादयतीति कूलैः गृह्णाति संनह्यति चर्मणा तु / श्लोकैरु[पस्तौत्यु]पयाति सेनया चूर्णैरवध्वंसयतीति दर्शितम् // 135 // . भावादितोऽर्थस्य गतौ षडुक्ति द्वौ को जिदादिः स तिङादिसिद्धेः / उक्तश्च योऽभूच्च मतान्तरेष्टो नोक्तोऽन्यदथोऽपि समोऽत्र चित्रम् // 136 / / अत्रानेकार्थत्वाद् धातूनां सर्वार्थः प्रदर्शयितुं न शक्यते / अतः शास्त्रोपयोग्येव कश्चिदर्थः प्रदर्श्यते / स च यावच्च सभायाम् 'असु भुवि, कपि चलने, चल कम्पने' इत्याधुच्यते तावद् वरम् / 'असु सत्तायां, कपि कम्पने, चल चलने' इत्याधुक्तस्यादिष्टश्चायमर्थः / 'डुपचष् पाके, डुकृञ् करणे' इत्याद्युक्तेः / स च यावत् प्रत्येकमुच्यते तावद् वरं भावप्रत्ययान्तार्थ इत्युक्तं स्यादित्यालोच्याह सक्तस्तदर्थे सति भावप्रत्यये / प्रथमैकवचने निर्दिष्टो धातुरेकोऽनेको वा विवक्षित भावप्रत्यये दत्ते सति तस्यैव योऽर्थः, तदर्थे प्रत्येकं ज्ञेयः / यथा भू भावे / णिदि जीव वाच्छि:, क्रमेण निन्दने जीवने वाञ्छायाम् / नुम्णीत् इत्यर्थः / इदित् तद् वा तादृक् यादृग्भावप्रत्ययेनोक्तार्थत्वेन वा प्रतीतार्थः, तादृग्गणान्तरादावनुक्तार्थोऽपि तदर्थः प्रागर्थो ज्ञेयः, यथा माङ्गल्ये शास्त्रे च षिधू, पुनः षिधू त्रयोऽत्र षिधू तदर्थ एव / तथा षद्लू हिंसने, शद्लू शातने स्यात् पुन षद्लुशल तदर्थे, तथा तदिद् वा / उक्तार्थो यदनुबन्धः कश्चित् तदिति तदन्योऽपि तदर्थे प्रागर्थे ज्ञेयः / यथा तुणभुजौ कौटिल्ये बाधित्वा कुटि च कौटिल्य एव / एवं गच्छादे ऊणः / स्तहभौ / स्त विदाच्छादे / उभौ तङतङौ च स्तः / त्विष दीप्तौ / घुणु दिवीत्यादि वा समुच्चये / पुनरौ जसिक्ताः / त्वन्तास्तदन्त्यार्थवृतः दवचनान्ताः अव्ययत्वशब्दान्ताश्च तेषां तन्निदिष्शनामन्त्यस्य धातोर्भावप्रत्ययान्तरस्यार्थे पर्वेऽपि वर्तन्ते, इति तदन्त्यार्थवृतः / यथा 'ओलुञ्चौ लुञ्चने, ऋदित् / अनगिदितोणौ च ट्युपान्तेऽत्र गित्यर्थः / मा भवानोणिणित् / तथा महार्ह अर्थाः, अर्चायां त्वन्ताः / चमु छमु जमु झमु खाद भक्ष तु भक्षणे / लछ लाछि तु लाञ्छने / उ निपातः / णितो वा / तदन्त्यार्थवृतो, यथा शिघि घ्राण घ्राणे / स्फूर्ज स्मृत्यैल् व्याने / वा समुच्चये / तथा वान्ताः पुरः / अव्ययवान्ताः पूर्वस्योक्तार्थस्यार्थे वर्तन्ते / तथा तक्षकल्लहसा इति हसने / गग्घ गग्यश्च हसन एव / तथा जिप णिष विष सेचने। व्युतिर् मिष् पृष् उक्षिपिञ्चि वा सेचने / तेषां त्यस्य चितः / प्रतीतार्थोत्तरधात्वर्थे पूर्वे विवर्तन्ते / यथा पुडि-शुठः मोटने / कृषः कर्षणे / न चोक्तम् / उक्तार्थत्वात् सूक्तायुक्तं कार्यं न स्यात् / उखणखवखवञ्चुरित्यादि / सूक्तोऽपि खिङ् गतावुक्तस्तादृक्षः / आदेतश्च / णभभुजौ कौटिल्ये च / रुधादौ भुजो भोजने, उक्तार्थोऽपीत्यादि // 1 //