________________ 120 पञ्चग्रन्थी व्याकरणम् (11) श्लुगि भू च / [ 2 / 2 / 2 / 4 / ] अर्थादिमेयसोरिः लुक्स्यात्, बहुभुं च / भूमा / भूयान् / लुगाढात् // (12) तृ / [ 2 / 2 / 2 / 5 / ] तृन्तृचौ लुक् स्तो ण्यादौ / कर्तरि वोढारं दोग्धारमाचष्टे / कारयति / दोहयति / करिष्ठः / करीयान् / करयति / (13) विन्मत् / [ 2 / 2 / 2 / 6 / ] ण्यादौ लुक् स्युः स्रग्विन् [इत्येतस्य] स्रजयति / [स्रजिष्ठः / स्रजीयान् / ] स्रुग्वान् इत्येतस्य] / स्रुचयति / [स्रुचीष्ठः / स्रुचीयान् // (14) अस्मिन् / [2 / 2 / 27 / ] विन्मतोलुंकि सति ण्यादौ तृ लुक् स्यात् / कर्तृमन्तमाचष्टे / कारयति / [करिष्ठः करीयान् // ] (15) वा द्वयाद्यचान्त्यायचः / [2 / 2 / 2 / 8 / ] अस्मिन् विन्मल्लुकि व्याधचः सत्कस्य अन्त्य एवादिरवयवस्य लुक् स्याद् वा / पयस्विन् पययति पयसयति / वस्तुमान् / वसयति / [वसिष्ठः / वसीयान् / ] व्याद्यचः किम् ? स्रजयति // (16) एषु ण्यादिषु [ 2 / 2 / 2 / 9 / ] तन्नित्यं पार्थक्यात् / पत्र्यटयति / 3 द्व्यादचः किम् ? स्रजयति / [स्रजिष्ठः / स्रजीयान् / ] त्वचयति / [त्वजिष्ठः / त्वजीयान् / ] अण्णादौ नोऽच्येसि / अणाद्यचि येवामिति / नान्तस्यान्तत्याजातेः श्लुक् / आग्निर्मिः / औडुलोमिः / दाण्डम् / ब्रह्मवत्तरः ! ब्रह्मीयान् / नः किम् ? आसिचितः / अव्ये किम् ? अग्निशर्मरूप्यः / अस्त्युत्तरार्थम् / अणादौ किम् ? राज्ञे अणाद्यापादम् / अच्येसि उदिति यावत् // (17) अनोऽण्येऽटि / [ 2 / 2 / 2 / 10 / ] अनन्तस्य ण्यट्येव येऽन्त्यादिजातेः देर्नलुक् / राज्ञो भावः, कर्म च, राज्यम् / ण्यटि किम् ? सामसु साधुः सामन्यः / ब्राह्मण्यः / नियमार्थं वचनम् / (18) अणि दण्डिनां च / [ 2 / 2 / 2 / 11 / ] चैवार्थे / दण्ड्यादीनामेवाणि परेऽन्त्याजादेः लुक् / वृत्ते च वितानमत्र - दण्डी सुपर्वा कुथुमी शिखण्डी ब्रह्मचारी चक्रपाणि ब्रह्मन् / स्यात् तैत्तिलिजाजलिपीठमर्दी शील्लाङ्गली. सूकरसद्मचक्री // 1 // सङ्कोचदेशेऽस्य शुनो विकारे हैमेऽश्मनो वेत्ये च चार्मकोशे / भे तैषपोषौ यदि धातुसैद्धं कर्मोमिवादेश्च अशश्वदारात् // 2 // औक्ष्णोऽपत्येऽगगणिगाथिविदथिफणिकेशिनाम् / इणोऽचो वा हितनाम्नो म्नोऽवमर्णः समूह इन् // 3 // मदपत्यं समूहो वेत्यादि / दाण्डम् / सौपर्वः / तैतिली [जाजलि / पीठमर्दी / शाल्भागकी] / आचार्यः / तज्जुषोऽपि तमधीते / तैतिलः / [जाजलः / पैठमर्दः / शीलालः / लाङ्गलः / ] शुनो विकाररूपे सङ्कोचेऽर्थे देशेऽस्य शुनोऽवयवेऽर्थे च शौवः सङ्कोच: / - शौवं मांसम् / अंसे शौवनमित्यन्ये / अनयोः किम् ? शौवनः / तथा हैमम् / विकार किम् ? हैमनम् / आश्मः आश्मनो वा / वेत्ये किम् ? चर्मणो विकारः / चार्मः कोशः / अन्यत्रान्यश्च चार्मणः / भे नक्षत्रे /