________________ 106 पञ्चग्रन्थी व्याकरणम् क्विप। कुमारी / रिति ईषत्पट्वी / कुमारजातीयः / तथा कु मारमानी कु कु टाण्डम् / एतावस्त्र्येकार्थावेव / बहुशो देहि / पटयति / कुमारायते / ढेऽग्नायी एव / अग्नायी देवताऽस्य, आग्नेयः / अग्नायी किम् ? रौहिणे: / अच्यस्यापवादः / अच्ये / अजादौ यादौ वाऽणादौ / अतिशये, पटिष्ठा / समूहे, [हस्तिनीनां समूहो] हास्तिकम् / श्यैन्याभावः / श्यैन्यां टो च द्रव्ये / अणादौ किम् ? हस्तिनीयति हस्तिन्यः / प्रसूतादयः / एताः समानाः कृतौ स्त्रियाम् / प्रसूतभार्यः / [प्रजातभार्यः। गर्भिणीभार्यः / ] एताः किम् ? द्रोणीभार्यः / कुटीभार्यः // . (12) च्विः क्वचित् / [2 / 1 / 2 / 6 / ] अनङ् पुंस्त्री त्र्यन्तं पुंवत् क्वचित् स्यात् / स्त्येकार्थे, महद्भूता / न च, गोमतीभूता // (13) नामटत्कान्तचारैज्झितोः / [2 / 1 / 27 / ] नाम संज्ञावाचि, टत् पूरणान्तं, कप्रत्ययान्तं, चारैच् कृतारैजन्तं चानूङ् पुंस्त्री पुमान् स्यात् स्त्र्येकार्थेऽप्रियाद्योऽपि,. झितोरेव, झिति कर्मधारये रिति च प्रत्यये / दत्तवृन्दारिका / पञ्चमवृन्दारिका / पाचकवृन्दारिका / सौतङ्गमवृन्दारिका / रिति / दत्तजातीया इत्यादि [= दत्तदेशीया / माथुरजातीया] / कान्तप्रत्ययनियमात् / पाकभार्यः / कृतारैच् किम् ? तावद्भार्यः / अर्धप्रस्थे भवाऽर्धप्रस्थी, सा भार्याऽस्य, अर्धप्रस्थभार्यः / तद्धिते किम् ? कुम्भकारभार्यः // 2 // . विकाररक्ते भ्रिति मान्यढाच्ये प्राण्यङडीजाति च काकशावाः / सर्वादिवृत्तौ त्वतलोर्गुणो डी घादौ लघुस्तूदुगितश्च वैकात् // 2 / 1 / 3 // वृत्तम् // (14) विकाररक्ते / [2 / 1 / 3 / 1 / ] विकारे रक्ते चार्थे यः कृतारैजन्तोऽनूङ् पुंस्त्री स पुमान् स्यात् स्रितोः काद्ये चाप्रियाद्यापि, पार्थक्यात् / [लोहस्य विकारो लौही, लौही ईषा] लौहेषा / [कषायेण रक्ता काषायी, काषायी बृहतिका] काषायबृहतिका / तथा [लौहेषा यस्य रथस्य स,] लौहेषः। [काषायबृहतिका यस्य स, काषायबृहतिकः // ] (15) भ्रिति मान्यढाच्ये प्राण्यङ्गडीजाति च / [2 / 1 / 3 / 2 / ] प्राण्यङ्गाद् यो डी तदन्तं जातिवाचि चानूङ् पुंस्त्री पुमान् स्याद् भ्रितोः मानिनि टवजितेऽच्ये / दीर्घकेशवृन्दारिका / दीर्घकेशजातीयः / दीर्घकेशमानी / समूहे / हस्तिकम् / जाति / कठवृन्दारिका / [कठजातीया / कठदेशीया / ] एष्वेव किम् ? दीर्घकेशीभार्यः / दीर्घकेशीपाशा / प्राण्यङ्गडीनियमाद्, अकेशभार्यः / जाति / बढचीभार्यः / अढे किम् ? हास्तिनेयः / अप्रियाद्यापि किम् ? कठीप्रिया // (16) काकशावाः / [ 2 / 1 / 1 / 3 / ] कृतपुंस्त्वा निपात्यन्ते / काक्याः शावः [काकशाव:] / [मृग्याः पदं] मृगपदम् / मृगक्षीरम् / यथाकृत्यपुंवच्चैके // (17) सर्वादिवृत्तौ / [ 2 / 1 / 3 / 4 / ] वृत्तिमात्रे सर्वादिः पुंस्त्री पुमान् स्यात् / तस्याः मुखं, तन्मुखम् / तदिदं तत्र तथा / सर्वप्रिया / पराभावादनेका // (18) त्वतलोर्गुणः / [2 / 13 / 5 / ] [स्त्यनूगुणवचनः त्वात्, तलश्च परः पुमान् / पव्या:भावः] पटुत्वम् / पटुता / गुणः किम् ? कठीत्वम् //