________________ पञ्चग्रन्थी व्याकरणम् अश्नीतपिबता दाम पचतभृज्जता भिन्द्धिपचाविह तेभ्यो लवणाकूटा च निष्किरा // 19 // आहारनिपचेत्याद्या मयूरव्यंसकादिषु / अयमेव समासः स्याद् बहुलं सर्वमिष्यते // 20 // एकश्चासौ पुरुषश्च एकपुरुषः / एक किम् ? द्वौ पुरुषौ / विशेषणं, नीलोत्पलम् / पाचकः / पाठकः / पाठकापाचकः / कण्टखञ्जः / [खञ्जकण्टः / ] क्वचिन्नित्यम् / कृष्णसर्पः / लोहितशालिः। क्वचिद्, रामो जामदग्न्यः / अर्जुनः कार्तवीर्यः / क्वचिद् व्यत्ययोऽपि / पुरुषोत्तमः / सिद्धसेनाचार्यः। आचार्यः सिद्धसेनः / एवं सत्त्वानांमित्यादि / सर्व किम् ? सोऽयम् / प्राग्भवेति / पूर्वकालक्रियोऽपरकालक्रियेण / स्नातानुलिप्तः / कृष्टसमीकृतम् / दग्धप्ररूढम् / पूर्वापरौ किम् ? उत्तराः वृक्षाः / विशेषणमित्येवान्ये // 1 // उत्कृष्टादि 5 पूर्वैः 5 / उत्कृष्टपुरुषः / सन्ना / एवं [परमपुरुषः / उत्तमपुरुषः / महापुरुषः] / पूर्वैः किम् ? उत्कृष्टो गौः, कर्दमात् / संपूज्यः वृन्दारकाद्यैः / गोवृन्दारकः / [अश्वनागः / गोकुञ्जरः / ] पूज्यः किम् ? सुसीमो नागः / वर्णैः सवर्णः / शुक्लशुक्लः / शुक्लकृष्णः / लोहितसारङ्गः / समुदाये तदंशः / घ्यप्तुल्यमसत्तया / घ्यबन्तं तुल्याख्यं वाऽजात्या / [भोज्यं च तदुष्णं चेति] भोज्योष्णम् / भोज्यलव / पानायशांतम् / तथा, तुल्यश्वेतः / सदृशमहान् / असत्तया किम् ? भोज्य ओदनः / नो डे किम् / नञः परस्यासत्तया डे परे किंशब्द: कतरकतमौ जात्येत्यर्थः / [कतरः कठः] कतरकठः / [कतमः कलापः] कतमकलापः / जात्या किम् ? कतरो देवदत्तः / कतमो देवदत्तः / च निन्द्ये / निन्द्ये चार्थे किं सुपा / किंराजा यो न रक्षति / किंसखा योऽभिद्रुह्यति / न / दत्तः / निन्द्ये किम् ? को राजा तत्र वेति / तेन / येन गुणेन वतीत्युपमानं भूतं तत् तेन / [शस्त्रीव श्यामा] शस्त्रीश्यामा [देवदत्ता] / कुमुदश्येनी / हंसगद्गदा / न्यग्रोधपरिमण्डला / वति किम् ? सा श्यामा / तेन किम् ? फाला इव तन्दुलाः // 2 कुत्सनैः कुत्स्यानि, विशेषणपरत्वार्थम् / वैयाकरणखसूचिः / निष्प्रतिभ [इत्यर्थः] / मीमांसकदुर्दुरूढः, नास्तिकः / कुत्स्यानि किम् ? वैयाकरणश्चौरः / नात्र वैयाकरणत्वं कुत्स्यते / कुत्स्नैः किम् ? कुत्सितो विप्रः / तैः / अनन्तरकुत्स्यैः पापाणके कुत्स्नेऽपि / शकन्धादित्वादल्लोपः / पापकुलालः / अणकनापितः / अगुणोक्तौ / सामान्याप्रयोगे ,क्वचिद् वेत्यलोपः / व्याघ्रादिभि रुरुपर्यन्तैरुपमेयं, विशेषणपरत्वार्थे च / नरो व्याघ्र इव नव्याघ्र इत्यादि // 3 // पौर्भिसाकृत्यर्थः / [मुखपद्मम् / ] करकिसलयम् / पार्थिवचन्द्रः / अगुणोक्तौ किम् ? ना व्याघ्र इव शूरः / [कुमारम्] अध्यापकादिभिः कुलटान्तैः / आद्याकृत्यर्थः / अतश्चपलकुशलादिभिश्च / कुमारं परलिङ्गसदृशम् / कुमारपण्डितः / इत्यादि [=कुमाराध्यापकः / कुमारयुवा / कुमारमृदुः / कुमारप्रव्रजितः / कुमारपटुः] // 4 // कुमारी चासौ कुलटा च कुमारकुलटा / या इति तत्पुरुषः / एवं शमित्यन्तमेके / तीज्तीयादि सुपा / द्वितीयं भिक्षायाः द्वितीयभिक्षा / [तृतीयभिक्षा / चतुर्थभिक्षा / तुर्यभिक्षा / ] याजकादिषु / भिक्षाद्वितीयम् / [भिक्षातृतीयम् / भिक्षातुर्यम् / ] नबर्णर्धम् / नपुंसकमधू समप्रविभागे सुपा / अर्धं पिप्पल्याः अर्धपिप्पली / नप् किम् ? ग्रामार्धः / वेद्यधर्मशास्त्रीयम् / अपरादि 4, अंशमवयवभूतम् अर्थाद् अंशिना सुपा / अपरो भागः कायस्य अपरकायः / अंशं किम् ? अपरो ना / अंशिना किम् ? पूर्वं नाभेः कायस्य /