________________ पञ्चग्रन्थी व्याकरणम् किम् ? प्रियोभयौ / ( 247) द्धेऽपः / [ 1 / 2 / 23 / 13 / ] अपोऽन्तो दुः स्यात् स्वद्वित्वोक्तेः सुपि भे परे / अद्भिः स्वद्भ्याम् / (248) अन्तेऽनडुहः / [ 1 / 2 / 23 / 14 / ] अनडुहोऽन्तो द् स्याद् अन्ते पदान्तस्थस्य / स्वनडुत्कुलम् / आनडुहिः / अनडुत्सु / अनडुत्ता / अनड्वान्नोक्तान्तः / अन्ते किम् ? अनड्वाहौ / . अनाति / वृद् इति द्वितीयः पादः समाप्तः // 23 // [ // इतिश्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे प्रथमाध्याये द्वितीयः पादः // ] -.