________________ प्रथमोऽध्यायः द्वितीयः पादः अपत्यमन्यस्याश्रुतत्वाद् येषां लुगुक्तस्तदन्तस्य पितामन्त्यानां बहुत्वे विषयभूते तेषां लुक् स्यात् / वैदस्य वैद्ययोविदानां वाऽपत्यानि बहवो माणवकाः विदाः / (240) यञ् चाणभिजिद्भ्यः / [1 / 2 / 23 / 6 / ] अभिजिदादेर्योऽपत्यार्थे यञ् स बहुत्वेऽप् स्यात् / अभिजितोऽपत्यानि आभिजिताः / वैदभृताः / बहुत्वे किम् ? आभिजित्यः / श्लोकोऽत्र - अभिजिद्विदभृच्छालावच्छिखावच्छमीवच्च / ऊर्णावच्च श्रुवच्चेति यञपत्येत एव वृत् // 1 // (241) वाऽस्मत्वविशेष्यः / [1 / 2 / 237 / ] अस्मच्छब्दोऽविशेष्यो विशेषणेनानवच्छिन्नोऽबहुत्वे विवक्षिते बहुत्वे वर्तमानो वा प्रयुज्यते / अहं ब्रवीमि / वयं ब्रूमः / तुशब्दादस्मच्छब्दानुपदम् / अन्यथा गोदौ ग्राम इव न स्यात् / अविशेष्यः किम् ? अहं गर्यो ब्रवीमि / एवं यदुः 2 दभी 3 पाचकः देवदत्तः एकः / अप्राप्ते वेति, बहुत्वे वयमेव / .. (242) भे प्रोष्ठपदे फल्गुन्यौ / [1 / 2 / 23 / 8 / ] भे नक्षत्रार्थे प्रोष्ठपदे द्वे फल्गुन्यौ च बहुत्वे वा प्रयुज्यते / अद्य पूर्वाः प्रोष्ठपदाः / पूर्वे प्रोष्ठपदे / पूर्वाः फल्गुभ्यः / पूर्वे फल्गुन्यौ / भे किम् ? प्रोष्ठपदे, माणविके / एताः किम् ? पूर्वे भद्रपदे / द्वे किम् ? फल्गुनी / . (243) गुरुजात्योः / [1 / 2 / 23 / 9 / ] गुर्वाख्यायां पूज्याख्यायां जात्याख्यायां च बहुत्वे बहष वाशब्दः प्रयज्यते / त्वं गरुः / ययं गरवः / यवां गरू / भवान्नाह / भवन्त आहः / सम्पन्नो व्रीहिः / सम्पन्ना व्रीहयः / द्वित्वेऽप्येकीयं मतम् / व्रीहियवाः / व्रीहियवौ / अन्ये त्वाहुः जात्याख्यायामेकस्मिन् [पा० अ० 1/2/58] इत्यनेनात्र व्रीहियवावेव / तदत्रेष्यते / व्यवस्थिता वा वृत्तेः सङ्ख्यायोगे निषेधश्च / एको व्रीहिः / वा विशेष्योऽत्र पार्थक्यात् / पण्डिताः यूयं मे गुरवः / एते व्रीहयः / बहुत्वे यूयमेव / जातिव्यक्तित्वे तु तत्त्वार्थत्वात् बहु बहुवचनस्य / त्वं च वयं च वयम् / व्रीहयश्च [यवाश्च] व्रीहियवाविति न सिध्यति / - (244) वा बह्वपि सुपा / [1 / 2 / 23 / 10 / ] वा बहुलार्थः / क्वचिदबहुत्वे बहुषु शब्दः प्रयुज्यते सुया योगे / इमे दाराः, गृहा इत्यादि / सङ्ख्येयबहुत्वेऽप्येकत्वं विंशत्यादि विंशनरा इत्याद्युक्तम् / गौः, गावौ, गावः / सुक्तं सुक्ते, सुक्तानि / पावकः / विंशतिः, विंशती, विंशतयः, इत्याद्यभिधेयवल्लिङ्गवचनानि / सुपा किम् ? दारगवम् / / (245) लिङ्गैकादि पुरोवत् / [ 1 / 2 / 23 / 11 / ] लिङ्गसंख्ये स्वार्थे प्रयुक्तस्येवोपचरितस्य स्तः / अग्निमाणविका / गौर्वाहीकः / वचना खरकुटीना / भूतमियं स्त्री / आवपनमुष्टिका / कुल्या जलधिः / शिरो मे श्रीः / यशो मे मुखम् / स्थाली पातालम् / वर्षाः हेमन्तः / दाराः कुटुम्बिनः / ते भृत्याः नृपतेः कलत्रमितरे संपत्सु चापत्सु च / लिङ्गसङ्ख्ये किम् ? कालकारकाधुपचरितस्येव / अग्निष्टोमयाजी पुत्रोऽस्य भविता / भावि कृत्यमासीत् / गोमान् भविता / बहुलत्वाच्छ्रियंमन्यं श्रियमन्यं कुलम् / (246) स्वद्वित्व उभः / [1 / 2 / 23 / 12 / ] स्वद्विचन एवोभः प्रयुज्यते / उभौ / स्वद्वित्वे