________________ प्रथमोऽध्यायः द्वितीयः पादः खरपयशःपणभण्डितभण्डिलभडिलभडिताञ् स्त इञ् कदुकात् / पुष्करसत्पदकाभ्यां विषपुटपकसक्थतो ज्ञेयः // 2 // कर्णाटकात् कम्बलहारपिण्डीजङ्घात् सदामत्तवशीकजङ्घारथाच्च पर्णाढकशीर्षमायरक्षोमुखाचोपरिमेखलात् स्यात् / क्रोष्टपादाद् वहिर्योगमन्थकोत्कासतः कर्षक: क्रोष्टमाया वत् // 3 // . कुत्सान्तेभ्योऽण् लुक् सि वा दित्वात् / ढञ् लुग् विश्यादेः दिशादित्वात् / यण् खरपयशः नडादित्वात् / ज्य भण्डितादेः अश्वादित्वात् / इञ् लुक् कदुकादेबह्वाद्यन्तत्वात् / (231) प्राग्बह्वचश्चेञ् भरतात् / [1 / 2 / 22 / 7 / ] प्राग्वाचिभरतवाचिभ्यां बह्वज्भ्यां पर इञ् बह्वादौ लुत्स्यात् / पन्नागाराः / मन्थारषणाः / भरतेषु - युधिष्ठिराः / अर्जुनाः / प्राग् भरत बह्वज् इञ् किम् ? वालाकयः / हस्तिदास्रयः / पौष्पयः / शान्तनवाः / नाऽबह्वादौ प्राच्यत्वेऽपि भरतस्य ग्रहणं प्राच्यग्रहणेऽन्यत्र ग्रहणार्थम् / औद्दालकिः पिता / औद्दालकायनिः पुत्रः / आर्जुनिः / (232) क्षशिगुतोऽञ्यञ् / [ 1 / 2 / 22 / 8 / ] शिग्रुत्प्रत्याहारादन्यतोऽबह्वादौ अञ्यौ लुक् सुः / अञ् / विदाः / उर्वाः / यञ् / गर्गाः / वक्षाः / क्रीते पञ्चगर्गः / शिग्रुतः / शैग्रवाः / नाऽबह्वादौ / विषमाक्षरात्रः / / शिग्रुगोपवनश्यामाकबिन्दुभाजन श्यावकाः / श्यवकाश्वावतानौ च शृपणश्चाष्ट शिग्रुतः // 1 // - (233) कुण्डिनागस्ति च / [1 / 2 / 22 / 9 / ] कुण्डिनीअगस्त्यशब्दाभ्यां यो लुक् कुण्डिन अगस्ति . इति स्यात् / कुण्डिनागस्तयः / बह्वस्त्रियामेव / कौण्डिन्यः / नास्त्रियश्च / :: आगस्त्यम् / / (234) वोपकादितः / [1 / 2 / 22 / 10 / ] उपकादेः बह्वादौ वा लुक् / उपकाः औपकायकाः / लमकाः / नाऽबह्वादौ / श्लोकत्रयान्ता हरिणीह उपकलमकौ भ्रूलेखा स्यात् कपिष्ठलजन्तुको गडुरबधिरौ कर्णः कान्ताः शलास्थलपर्णकौ / जटिलकुसितौ स्यातां कान्तौ प्रतानमतञ्जलौ यदनभिहितो दामात्कण्ठः कठेरणिरुत्तमः // 1 // भ्रष्टककलशीकण्ठौ सुपिष्टौ भ्रूपतञ्जली / काशकृत्स्नमदामात्र कदामत्तकडारकौ // 2 // अनुलोमन् खरीजङ्घसुगन्धकाः सुधायुकश्चरौ कृष्णात् / पिङ्गलाजिनसुन्दराः मयूरकर्णकपिष्टाः पिञ्जलकसुदञ्जलाः / केषाञ्चित् केचिदेवेष्टाः नडशिवाद्यतः यण अणिञ् // 3 //