________________ पञ्चग्रन्थी व्याकरणम् लुक् स्तः / षट् 2 / पञ्च 2 कति 2 अषट् तत्सत्कौ / प्रियषषाः / संख्या किम् ? विप्रषः / राजानः / लुगधिकारः तुकामिति यावत् / (223) अष्टौ / [1 / 2 / 21 / 11 / ] अनष्टः सत्कौ जस्शसौ डौ निपात्येते / तुक् च वर्तते / अष्टौ / अनष्टौ / तत्सत्कौ किम् ? प्रियाष्टानः / (224) दिदतो न सुबं त्वङसिर् / [1 / 2 / 21 / 12 / ] दितोऽव्ययीभावाद् अतः परः सुप् लुग्न स्याद् वा, दित्वात् प्राप्तोऽपि / अत्सु अम् पुनः स्यात् सुप् अङसि / उपकुम्भम् / अऽसि . किम् ? उपकुम्भात् // 21 // वा र्टा डि वंश्यर्द्धनदेस्तिचादिनो बह्वस्त्रियां ज्यव् तुवि यस्करूपतः // प्राग्बह्वचश्चेञ् भरतादशिग्रुतो ऽज्यञ्कुण्डिनागस्ति च वोपकादितः // 1 / 2 / 22 // इन्द्रवज्रा // ( 225) वा र्टा / [1 / 2 / 22 / 1 / ] दिदतः परः प्र तृतीया वाऽम् स्यात् / उपकुम्भम् / उपकुम्भेन / वा कृतम् / ( 226) डि / [ 1 / 2 / 22 / 2 / ] तथा सप्तमी / उपकुम्भम् / उपकुम्भे निधेहि / ( 227) वंश्यद्धनदेः / [1 / 2 / 22 / 3 / ] द्वन्द्वैकत्वे पुंस्त्वान्नंदेरिति / वंश्यान्ताद् : ऋद्धयन्तान्नद्यन्ताच्च दिदतः परः ङि नित्यमाम्यात् स्यात् / विंशतिभारद्वाजम् / सुभिक्षम् / सुभद्रम् / उन्मत्तगङ्गम् / लोहितगङ्गम् / सप्तगोदावरं वसति / / (228) तिचादिनः / [1 / 2 / 22 / 4 / ] तीति समासे, चादेः स्वसत्कः सुप् लुक् / राजपुरुषः / वासिष्ठः / पुत्रकाम्यति / च आतंक इत्यादि / तत्सत्कः किम् ? अतिस्वरः / प्रियोच्चैसः / (229) बह्वस्त्रियां ज्यव् / [1 / 2 / 22 / 5 / ] बहुत्वे अस्त्रियां विहितो ञ्यप् / ज्य / अण् / णे ण्यट् / ण्यट् / अञ् / अण् / इञ् / घण् / ण्यत् / इति ज्यव्प्रत्याहारो लुक् स्यात् / उ निपातः / लौहध्वज्यः / लोहध्वजाः / वार्येण्यः / वृकाः / पार्शवः / पर्शवः आङ्गाः / अङ्गाः / आम्बष्ठ्यः / त्स्यष्टाः / सुझानतिक्रान्तः अतिसुमः / सुह्मरूप्यः / तैः क्रीतः / पञ्चलोहध्वजः / बहुषु अस्त्रियां विहितः किम् ? लौहध्वज्यः / लौहध्वज्याः / प्रियलौहध्वज्याः / स्त्रीबहुत्वे तेषां नाम्नि यावत् / (230) तुवि यस्करूपतः / [1 / 2 / 22 / 6 / ] यस्कादेः बह्वस्त्र्यप्रत्यये लुक् स्यात् / यस्काः / अङ्गिरसः / नाबबादौ / इहेन्द्रार्या च षट्पात् / यस्काङ्गिरोलावशिष्ठगोतमात् द्रुह्यादयस्थूणभलन्दनाद् भृगोः / स्यान्मित्रयोर्वा तृणकर्णकुत्सतोऽण्ढविश्रिकुरैरजवस्तितोऽत्रितः // 1 // .