________________ पञ्चग्रन्थी व्याकरणम् लघुपाच्चचुदीच्च वसूर्मघव श्वयुवं व उरी सुपि आदडिदन्न // 1 / 2 / 20 // तोटकम् // (202) नुटि / [ 1 / 2 / 20 / 1 / ] आम् नुटि पूर्वो दीर्घोऽक् स्यात् / घटानाम् / मातृणाम् / (203) नः / [1 / 2 / 20 / 2 / ] नान्तस्य तथा व्यवधानेऽपि / पञ्चानाम् / नः किम् ? चतुर्णाम् / नुटि किम् ? राज्ञाम् / ___ (204) नृ न वा / [1 / 2 / 20 / 3 / ] नृ दीर्घो नुटि [न]वा / नृणाम् / नृणाम् / . (205) यकृतो यकनोऽसुटि वा / [1 / 2 / 20 / 4 / ] यकृदादयो यथासंख्यं यकनादयः स्युर्वा सुप्यसुटि परे / इह षट्पात् यकृन्निशाऽसृज्शकृदासनानि दोष्यूषपादाः हृदयोदके च / मासश्च दन्तस्त्वथ नासिकावृद् यकन्निशोऽसन्शकनासनश्च / दोषं च पूषं पहदावुदन् च मास्दन्नसाश्चेति च षट्पदीवृत् // यक्नः / यकृतः / इत्यादि [=निशि / निशायाम् / अस्ना / असृजा / शक्ना / शकृता / आस्नि / आसनि / आसने / दोष्णा / दोषा / यूष्णा / यूषा / यूषेण / पदा / पादेन / हृदि / हृदये / उद्ना / उदकेन / मासि / मासे / दद्भिः / दन्तैः / नसा / नासिकया / ] यकन् / निश् / असन् / शकन् / आसन् / दोषन् / पूषन् / एतद्वत् / उदन् / मास् / दन् / नस् / सुप्चादिरहिता आदेशा एते / (206) ग्यशिणि क्वसुटोरपदं लघुपात् / [1 / 2 / 205 / ] गी च शिणिज् क्वसुट्वजितोऽन्यश्च वा तु प्रत्ययः तयोः ग्यशिणिक्वसुटोः परतः पाद् लघु स्यादित्यर्थः / अपदं न चेत् पदसंज्ञः / पादमाचष्टे पात् / पदी कुले / पदा / व्याघ्रपदी स्त्री / चतुष्पदि / वैयाघ्रपद्यः / अनयोः किम् ? चतुष्पान्दि / पादयति / व्याघ्रपाद्यते / व्याघ्रपात् / पदम् / व्याघ्रपाभ्याम् / एवमुत्तरत्र / (207) चऽच् / [1 / 2 / 20 / 6 / ] अनकारोऽच् च् स्याद् अनयोरपदम् / प्राचः / प्राचि / पितृचः / पितृचि / अनयोः किम् ? प्रत्यञ्जि / (208) उदीच्च / [ 1 / 2 / 207 / ] तथोदच् उदीच् स्यात् / उदीचः / औदीच्यम् / तयोः किम् ? उदञ्चि / (209) वसूस् / [1 / 2 / 20 / 8 / ] प्रत्ययो वस् उस् स्याद् अनयोरपदम् / विदुषः / पेचुषी स्त्री, कुले वा / विदुष्मान् रामः / पैचुष्यम् / अनयोः किम् ? विद्वांसि / (210) मघवश्वयुवं व उरी सुपि / [1 / 2 / 20 / 9 / ] मघवन्, श्वन्, युवन्, एषां व इतिवृत्तिः, नालोपो नान्तत्वार्थः, एषां व उ: स्याद् अनयोरपदम् ईकारे सुपि च परे / मघोनः / अतियूनी स्त्री, कुले / यूनि / ई सुपि किम् ? माघवनम् / शौ[नम् / यौ]वनम् / अनयोः किम् ?