________________ प्रथमोऽध्यायः द्वितीयः पादः प्रियांनड्वाहि. / अनड्वान् / अनड्वाहौ / अनड्वाह: / अनड्वाहम् / अनड्वाहौ / प्रियचत्वाः / __ (195) सखि डै नरि / [1 / 2 / 19 / 4 / ] सखि ऐ स्यात् पुंसि सुटि / डिदन्तार्थः / सखायौ / सखायः / सखायम् / सखायौ / प्रियसखायः / नरि किम् ? सख्यौ / सखिकुलम् / सौ न / हे सखे / (196) तत्क्रुशि तुन्नरियाम् / [1 / 2 / 19 / 5 / ] क्रुश्शब्दे यस्तुन्प्रत्ययः स तृत् स्यान् नरि सुटि ङ्यां च परतः / क्रोष्टा / कोष्टारौ / क्रोष्टारः / कोष्टारम् / क्रोष्टारौ / क्रोष्ट्री / क्रोष्ट्याम् / यां निनिमित्तम् / नरि ङ्यां च किम् ? क्रोष्टुनी / अक्रोष्ट्रनि / क्सौ न / हे क्रोष्टो / (197) अचि वा / [1 / 2 / 19 / 6 / ] अजादौ सुपि पुंसि अस्य अर्थादशसि तन् तृ वा स्यात् / क्रोष्ट्रा / क्रोष्टुना, आदि [=क्रोष्ट्रे / क्रोष्टवे / क्रोष्टुः / क्रोष्टोः / क्रोष्ट्रोः / क्रोष्ट्वोः / क्रोष्टरि / क्रोष्टौ / ] नरि किम् ? क्रोष्टुना कुलेन / अशसि किम् ? क्रोष्टून् / अचि किम् ? क्रोष्टुभ्याम् / त्सुन्तृचौऽशसादावित्यशास्त्रीयम् / (198) आम् पि च / [1 / 2 / 19 / 7 / ] अपः सौ नुमि दी? वा निपात्यते / बह्वाम्पि, बह्वम्पि तडागानि / ( 199) दीर्घमपाम् / [1 / 2 / 19 / 8 / ] स्योः सुटि वाऽपादीनां दीर्घः स्याद्, अर्थाद् उपान्ताकः / अत्र वृत्ती - अप् तृन् सूवौ च स्य नप्तनेष्टप्रशास्तृक्षतृहोतृपोत् / एषाम् अरो नः स्महतोऽत्र चाकः चतुर्दशामी कथिता अवाद्याः // स्वापः / अत्यापः / वदितारौ जनापवादान् / कर्तारौ कटस्य / स्वसारौ इत्यादि 8 [=नप्तारौ / नेष्टारौ / प्रशास्तारौ / क्षत्तारौ / होतारौ / पोतारौ / एषामरो दीर्घः / नो / नन्तस्याको दीर्घः / कर्माणि सुकर्तृणि / राजा / राजानौ / राजानः / राजानम् / राजानौ / स्महतोऽत्र / सन्तस्य महतश्च, अत्रेति स्योः सुटि यो नः तस्मिन् परे पूर्वोऽग्दीर्घः स्यात् / सीषि / महान्ति / श्रेयान् / श्रेयांसौ / श्रेयांसः / श्रेयांसम् / अतिमहान् / महान्तौ / स्महतः किम् ? बृहन्तौ / अत्र किम् ? सुहिंसौ / त्सौ नैव / हे स्वप् / (200) हनि नोऽर्यमपूषनुसौ / [ 1 / 2 / 19 / 9 / ] हन्धातुः इनन्तः / अर्यमन् / पूषन् / उ निपातः / एषां नान्तानां सावेवाग्दीर्घः स्यात् / बहुवृत्रहाणि / बहुदण्डीनि / बहुयशस्वीनि / बह्वयमाणि / बहुपूषाणि / सौ किम् ? वृत्रहणौ / . (2010) असतोरपि सौ / [1 / 2 / 19 / 10 / ] असन्तात्वन्तस्य हनादीनामपि सौ दीर्घोऽत् स्यात् / सुपयाः / गोमान् / वृत्रहा / अर्यमा / पूषा / त्सौ न / हे सुपयः // 19 // नुटि नो नृ न वा यकृतो यकनोऽसुटि वा ग्यशिणि क्वसुटोरपदम् / * पञ्च.-७